Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं- १५, उद्देशक :- १, द्वारं -
चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदप्पायह-
119 11
१३
“नणु भणियमुस्सयंगुलपमाणतो जाव देहमाणाइ । देहपमाणं तं चिय नउ इंदियविसयपरिमाणं ।।” अत्र 'देहपमाणं तं चिय' इति यत्तत्र उच्छ्रयाङ्गुलमेयत्वेनोक्तं तद् देहप्रमाणमात्रमेव, नत्विन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वादिति, अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्रायङ्गुलेन स्यात्ततः को दोष आपद्येत ?, उच्यते, पञ्चधनुः शतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि - यद्भरतस्यात्माङ्गुलं तत्किलप्रमाणाङ्गुलं, तच्च प्रमाणाङ्गुलमुच्छ्रयाङ्गुलसहस्रेण भवति "उस्सेहंगुल मेगं हवइ पमाणंगुलं सहस्सगुण "मिति वचनात् ततो भरतसगरादिचक्रवर्त्तिनां या अयोध्यादयो नगर्यो ये तु स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्रायाङ्गुलप्रमिता अनेकानि योजनसहस्रणि स्युः,
तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्येत, “बारसहिं जोयणेहिं सोयं अभिगेण्हए सद्द" मिति वचनात् अथ समग्रनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते तथैव च जनव्यवहारः, तत एवमागमप्रसिद्धः पञ्चधनुः शतादिमनुष्याणां विषयव्यवहारोच्छेदो मा प्रापदित्यात्माङ्गुलेनेद्रियाणां विषयपरिमाणमवसातव्यं नोच्छ्रायाङ्गुलेन, तथा चाह भाष्यकृत्
119 11
"जं तेणं पंच धनुसयनरादिविसयववहारवोच्छेओ । पावइ सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥”
अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाङ्गुलेनेति उपसंहारवाक्यं स्वतः परिभावनीयं, यदप्युक्तं प्राक् 'देहाश्रितानीन्द्रियाणीति तेषां विषयपरिमाणमुच्छ्रायाङ्गुलेने' ति, तदप्ययुक्तं, इन्द्रियाणामपि केषाञ्चित् पृथुत्वस्य आत्माङ्गुलेन मीयमानत्वाभ्युपगमात्, भावितं चैतप्रागपि इन्द्रियप्रतमाणचिन्तायां 'भयणिज्ज' मित्यादिभाष्यकारवचनावष्टम्भनेनेति, तस्मात् सर्वमिन्द्रियविषयपरिमाणमात्माङ्गुलेनैवेति स्थितं, ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाप्यधिकृतसूत्रोक्तं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात्, तथाहि - पुष्करवरद्वीपारर्द्धे मानुषोत्तरपर्वतसमीपवर्त्तिनो मनुष्याः कर्कसङ्क्रान्ती प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैरेकविंशतियोजनलक्षैव्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्थः
119 11
॥२॥
“इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साइं । तह पंचसया भणिया सत्तत्तीसाए अतिरित्ता ॥ इय नयनविसयमाणं पुक्खरदीवद्धवासिमणुयाणं । पुव्वेण य अवरेण य पिहं पिहं होइ मणुयाणं ।” इत्यादि ततः कथमधिकृतसूत्रमात्माङ्गुलेनापि घटते ?, प्रमाणाङ्गुलेनापिव्यभिचारभावात्, उक्तं च" लक्खेहिं एक्क वीसाए साइरेगेहिं पुक्खरद्धमि । उदये पेच्छंति नरा सूरं उक्कोस दिवसे ॥ नयनिंदियस्स तम्हा विसयपमाणं जहा सुए भणियं ।
119 11
For Private & Personal Use Only
॥२॥
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 342