Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-१५, उद्देशकः-१, द्वारं
किंणा फुडे कतिहिं वा काएहिं पुच्छा, गो० ! नो धम्मत्थिकाएणं फुडे जाव नो आगासत्थिकाएण फुडे आगासत्थिकायस्स देसेणं फुडे, नो पुढविकाइएणं फुडे, जाव नो अद्धासमएणं फुडे, एगे अजीवदव्वदेसे अगुरुलहुए अनंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागास अनंतभागूणे ||
१९
वृ. 'कंबलसाडएणं भंते!' इत्यादि, कम्बलशाटकः - कम्बलरूपः शाटकः कम्बलशाटक इति व्युत्पत्तेः आवेष्टितपरिवेष्टितः - गाढतरं संवेल्लितः, एवंभूतः सन् यावदवकाशान्तरं, यावत आकाशप्रदेशानित्यर्थः, ‘स्पृष्टा' अवगाह्य तिष्ठति 'विरल्लिएवी 'ति विरल्लितोऽपि विरलीकृतोऽपि तावदेवावकाशान्तरं-तावत एवाकाशप्रदेशान् स्पृष्टा तिष्ठति ?, भगवानाह - 'हंता गोयमा !' इत्यादि, हंतेति प्रत्यवधारणं, एवमेतत् गौतम ! यत् 'कम्बलसाडए णं' इत्यादि, तदेवं एषोऽत्र सङ्क्षेपार्थः–यावत एवाकाशप्रदेशान् संवेल्लितः सन् कम्बलशाटकोऽवगाह्यावतिष्ठते तावत एवाकाशप्रदेशान् ततोऽप्यवगाह्यावतिष्ठते, केवलं धनप्रतरमात्रकृतो विशेषः, प्रदेशसङ्ख्या तूभयत्रापि तुल्या, उक्तश्चायमर्थोऽन्यत्रापि नेत्रपटमधिकृत्य
"जह खलु महप्पमाणो नेत्तपडो कोडिओ म (न) हग्गंमि । तंभिवि तावइए चिय फुसइ पएसे (विरलिएवि ) " इति ।
एवं स्थूणासूत्रमपि भावनीयं । 'आगासथिग्गले णं भंते!' इत्यादि, आकाशथिग्गलं लोकः, स हि महतो बहिराकाशस्य विततपटस्य थिग्गलमिव प्रतिभाति, भदन्त ! केन 'स्पृष्टो' व्याप्तः, एतत्सामस्त्येन पृष्टमेतदेव विशेषतः प्रश्नयति- 'कतिभिः' कियत्सङ्ख्याकैः कायैः स्पृष्टः, वाशब्दः पक्षान्तारद्योतनार्थः, प्रकारान्तरं च सामान्याद्विशेषतः, तान् कायान् प्रत्येकं पृच्छति - 'किं धम्मत्थिकाएणं फुडे!' इत्यादि सुगमं, भगवानाह - गौतम ! धर्मास्तिकायेन स्पृष्टः, धम्र्मास्तिकायस्य सर्वात्मना तत्रावगाढत्वात्, अत एव नो धर्मास्तिकायस्य देशेन स्पृष्टो, यो हि येन सर्वात्मना व्याप्तो नासौ तस्यैव देशेन व्याप्तो भवति, विरोधात्, प्रदेशैस्तु व्याप्तः, सर्वेषामपि धर्मास्तिकायप्रदेशानां तत्रावगाढत्वात्, एवमधर्मास्तिकायविषयेऽपि निर्वचनं वाच्यं, तथा नो आकाशास्तिकायेन सकलेन द्रव्येण स्पृष्टः, आकाशास्तिकायदेशमात्रत्वाल्लोकस्य, किन्तु देशेन व्याप्तः, प्रदेशैश्च पृथिव्यादयोऽपि सूक्ष्माः सकललोकापन्ना वर्त्तन्ते ततस्तैरपि सर्वात्मना व्याप्तः, 'तसकाएणं सिय फुडे' इति, यदा केवलीसमुद्घातं गतः सन् चतुर्थे समये वर्त्तते तदा तेन स्वप्रदेशैः सकललोकपूरणात् त्रसकायेन स्पृष्टः, केवलिननसकायत्वात्, सेषकालं तु न स्पृष्टः, सर्वत्र त्रसकायाना म भावात्, एवं जम्बूद्वीपादिविषयाण्यपि सूत्राणि भावनीयानि, नवरं बहिः पुष्करार्द्धचिन्तायां 'अद्धासमएणं न फुडे' इति, अद्धासमयो ह्यर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्ती न बहिः, एतच्च धर्म्मसङग्रहणिटी कायां भावितं, ततो बहिर्द्वीपसमुद्राणामद्धासमयस्पर्शनप्रतिषेधः, 'जंबुद्दीवे लवणे' गाहा, सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती जम्बूद्वीपस्तत्परिक्षेपी लवणसमुद्रस्तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रः तदनन्तरं पुष्करवरो द्वीपः, अत ऊर्ध्वं द्वीपसध्शनामानः समुद्राः, ततः पुष्करवरसमुद्रः तदनन्तरं वरुणवरो द्वीपो वरुणवरः समुद्रः क्षीरवरो द्वीपः क्षीरोदः समुद्रः, धृतवरो द्वीपो धृतोदः समुद्रः, इक्षुवरो द्वीपो इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः, एतेऽष्टावपि च समुद्रा एकप्रत्यवताराः, एकैकरूपा इति भावः,
अत ऊर्ध्वं द्वीपाः समुद्राश्च त्रिप्रत्यवताराः, तद्यथा - अरुण इति अरुणोऽरुणवरो अरुण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ef3d14d096e3e4f80bf53863bcea47a690a5a074a82521a84c6ecd8457327f77.jpg)
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 342