SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पदं-१५, उद्देशकः-१, द्वारं किंणा फुडे कतिहिं वा काएहिं पुच्छा, गो० ! नो धम्मत्थिकाएणं फुडे जाव नो आगासत्थिकाएण फुडे आगासत्थिकायस्स देसेणं फुडे, नो पुढविकाइएणं फुडे, जाव नो अद्धासमएणं फुडे, एगे अजीवदव्वदेसे अगुरुलहुए अनंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागास अनंतभागूणे || १९ वृ. 'कंबलसाडएणं भंते!' इत्यादि, कम्बलशाटकः - कम्बलरूपः शाटकः कम्बलशाटक इति व्युत्पत्तेः आवेष्टितपरिवेष्टितः - गाढतरं संवेल्लितः, एवंभूतः सन् यावदवकाशान्तरं, यावत आकाशप्रदेशानित्यर्थः, ‘स्पृष्टा' अवगाह्य तिष्ठति 'विरल्लिएवी 'ति विरल्लितोऽपि विरलीकृतोऽपि तावदेवावकाशान्तरं-तावत एवाकाशप्रदेशान् स्पृष्टा तिष्ठति ?, भगवानाह - 'हंता गोयमा !' इत्यादि, हंतेति प्रत्यवधारणं, एवमेतत् गौतम ! यत् 'कम्बलसाडए णं' इत्यादि, तदेवं एषोऽत्र सङ्क्षेपार्थः–यावत एवाकाशप्रदेशान् संवेल्लितः सन् कम्बलशाटकोऽवगाह्यावतिष्ठते तावत एवाकाशप्रदेशान् ततोऽप्यवगाह्यावतिष्ठते, केवलं धनप्रतरमात्रकृतो विशेषः, प्रदेशसङ्ख्या तूभयत्रापि तुल्या, उक्तश्चायमर्थोऽन्यत्रापि नेत्रपटमधिकृत्य "जह खलु महप्पमाणो नेत्तपडो कोडिओ म (न) हग्गंमि । तंभिवि तावइए चिय फुसइ पएसे (विरलिएवि ) " इति । एवं स्थूणासूत्रमपि भावनीयं । 'आगासथिग्गले णं भंते!' इत्यादि, आकाशथिग्गलं लोकः, स हि महतो बहिराकाशस्य विततपटस्य थिग्गलमिव प्रतिभाति, भदन्त ! केन 'स्पृष्टो' व्याप्तः, एतत्सामस्त्येन पृष्टमेतदेव विशेषतः प्रश्नयति- 'कतिभिः' कियत्सङ्ख्याकैः कायैः स्पृष्टः, वाशब्दः पक्षान्तारद्योतनार्थः, प्रकारान्तरं च सामान्याद्विशेषतः, तान् कायान् प्रत्येकं पृच्छति - 'किं धम्मत्थिकाएणं फुडे!' इत्यादि सुगमं, भगवानाह - गौतम ! धर्मास्तिकायेन स्पृष्टः, धम्र्मास्तिकायस्य सर्वात्मना तत्रावगाढत्वात्, अत एव नो धर्मास्तिकायस्य देशेन स्पृष्टो, यो हि येन सर्वात्मना व्याप्तो नासौ तस्यैव देशेन व्याप्तो भवति, विरोधात्, प्रदेशैस्तु व्याप्तः, सर्वेषामपि धर्मास्तिकायप्रदेशानां तत्रावगाढत्वात्, एवमधर्मास्तिकायविषयेऽपि निर्वचनं वाच्यं, तथा नो आकाशास्तिकायेन सकलेन द्रव्येण स्पृष्टः, आकाशास्तिकायदेशमात्रत्वाल्लोकस्य, किन्तु देशेन व्याप्तः, प्रदेशैश्च पृथिव्यादयोऽपि सूक्ष्माः सकललोकापन्ना वर्त्तन्ते ततस्तैरपि सर्वात्मना व्याप्तः, 'तसकाएणं सिय फुडे' इति, यदा केवलीसमुद्घातं गतः सन् चतुर्थे समये वर्त्तते तदा तेन स्वप्रदेशैः सकललोकपूरणात् त्रसकायेन स्पृष्टः, केवलिननसकायत्वात्, सेषकालं तु न स्पृष्टः, सर्वत्र त्रसकायाना म भावात्, एवं जम्बूद्वीपादिविषयाण्यपि सूत्राणि भावनीयानि, नवरं बहिः पुष्करार्द्धचिन्तायां 'अद्धासमएणं न फुडे' इति, अद्धासमयो ह्यर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्ती न बहिः, एतच्च धर्म्मसङग्रहणिटी कायां भावितं, ततो बहिर्द्वीपसमुद्राणामद्धासमयस्पर्शनप्रतिषेधः, 'जंबुद्दीवे लवणे' गाहा, सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती जम्बूद्वीपस्तत्परिक्षेपी लवणसमुद्रस्तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रः तदनन्तरं पुष्करवरो द्वीपः, अत ऊर्ध्वं द्वीपसध्शनामानः समुद्राः, ततः पुष्करवरसमुद्रः तदनन्तरं वरुणवरो द्वीपो वरुणवरः समुद्रः क्षीरवरो द्वीपः क्षीरोदः समुद्रः, धृतवरो द्वीपो धृतोदः समुद्रः, इक्षुवरो द्वीपो इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः, एतेऽष्टावपि च समुद्रा एकप्रत्यवताराः, एकैकरूपा इति भावः, अत ऊर्ध्वं द्वीपाः समुद्राश्च त्रिप्रत्यवताराः, तद्यथा - अरुण इति अरुणोऽरुणवरो अरुण For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy