Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ १२ प्रज्ञापनाउपाङ्गसूत्रम् - २ - १५/१/-/ ४२५ जघन्यतोऽङ्गुलसङ्घयेयभागादव्यवहितं परिच्छिनत्ति, किमुक्तं भवति ? - जघन्यतोऽङ्गुलसङ्घयेयभागमात्रे व्यवस्थितं पश्यति न तु ततोऽप्यर्वाक्तरमिति, प्रतिप्राणि प्रसिद्धश्चायमर्थः, तथा च नातिसन्निकृष्टमञ्जनरजोमलादिकं चक्षुः पश्यतीति, उक्तं च “अवरमसंखेज्जंगुलभागातो नयणवज्जाणं ।। संखेज्जंगुलभागो नयणस्स" इति, उत्कर्षतस्तु श्रोत्रेन्द्रियं द्वादशभ्यो योजनेभ्यः आगतान् अच्छिन्नान् - अव्यवहितान् नान्यैः शब्दान्तरैर्वातादिकैर्वा प्रतिहतशक्तिकानित्यर्थः पुद्गलान्, अनेन पौद्गलिकः शब्दोनाम्बरगुण इति प्रतिपादितं, यथा च शब्दस्य पौद्गलिकता तथा तत्वार्थटीकायां प्रपञ्चितमिति न भूयः प्रपञ्चयते, स्पृष्टान्स्पृष्टमात्रान् शब्दान् प्रविष्टान् - निर्वृतीन्द्रियमध्यप्रविष्टान् श्र णोति न परतोऽ प्यागतान्, कस्मादिति चेत् ?, उच्यते, परत आगतानां तेषां मन्दरपरिणामत्वभावात्,, तथाहि -परत आगताः खलु ते शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपररिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रज्ञानं नोत्पादयितुमीश्वराः, श्रोत्रेन्द्रियस्यापि च तथाविधं अद्भुततरं बलं न विद्यते येन परतोऽपि आगतान् शब्दान् श्रृणुयादिति, चक्षुरिन्द्रियमुत्कर्षत; सातिरेकात् योजनशतसहस्नादारभ्याच्छिन्नान कटकुट्यादिभिरव्यवहितान् पुद्गलान् अस्पृष्टान् दूरस्थितान् अत एवाप्रविष्टान् 'रूवाइं'ति रूपात्मकान् पश्यति, परतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्यत्वभावात्, तत्त्वङ्गुलमिह त्रिधा, तद्यथा - आत्मङ्गुलमुच्छ्रयाङ्गुलं प्रमाणाङ्गुलं च, तत्र “जेणं जया मणूसा तेसिं जं होइ माणरूवं तु । तं भणियमिहायंगुलमणियमाणं पुण इमं तु ।।" -इत्येवंरूपमात्माङ्गुलं 119 11 “परमाणू तसरेणु रहरेणु अग्गयं च वालस्स । लिक्खा जूया य जवा, अट्ठगुणविवड्ढिया कमसो ॥” – इत्यादिरूपमुच्छ्रयाङ्गुलं तृतीयं- 'उस्सेहंगुलमेगं हवइ पमाणंगुलं सहस्सगुणं । तं चेवल दुगुणियं खलु वीरस्सायंगुलं भणियं ॥' इत्येवं प्रमाणाङ्गुलं, तत्रात्माङ्गुलेन मीयते तत्काले वापीकूपादिकं वस्तु उच्छ्रायङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि प्रमाणाङ्गुलेन पृथिवीविमानानि, उक्तं च 119 11 119 11 119 11 "आयंगुलेण वत्युं उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु ।” तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेनाहोश्चित् उच्छ्रयाङ्गुलेन उत प्रमाणाङ्गुलेन ?, उच्यते, आत्माङ्गुलेन, तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत्"अप्पत्तकारि नयणं मनो य नयनस्स विसयपरिमाणं । 119 11 आयंगुलेण लक्खं अइरित्तं जो अणाणं तु ॥" ननु देहप्रमाणमुच्छ्रयाङ्गलेन तु क्रियते देहाश्रितानि चेन्द्रियाणि ततस्तेषां विषयपरिमाणमपि उच्छ्रायङ्गुलेन कर्तुमुचितं, कथमुच्यते आत्माङ्गुलेनेति ?, नैष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्माङ्गुलेनैव देहादन्यत्वाद्विषयपरिमाणस्य, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 342