Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
११
पदं-१५, उद्देशकः-१, द्वार
वृ. 'पुट्ठाई भंते ! सद्दाइं सुणेति' इत्यादि, प्राकृतत्वात् सूत्रे शब्दस्य नपुंसकत्वं, अन्यथा पुंस्त्वं प्रतिपत्तव्यं, स्पृष्टन् भदन्त ! श्रोत्रेन्द्रियमिति कर्तृपदं सामर्थ्याल्लभ्यते शब्दान् श्रृणोति, तत्र स्पृश्यन्ते इति स्पृष्टास्तान्तनौ रेणुमिवालिङ्गिकतमात्रानित्यर्थः, ‘पुढे रेणुंवतणुंमि' इतिवचनात्, शब्यन्ते-प्रतिपाद्यन्तेअर्था एभिरितिशब्दाः तान्श्रृणोति-गृह्णति उपलभते इतियावत्, किमुक्तं भवति?
स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रेन्द्रियमुपलभते न तु घ्राणेन्द्रियादिवत् बद्धस्पृष्टानीति, कस्मादिति चेत्, उच्यते, इह शब्दद्रव्याणि घ्राणेन्द्रियादिविषयभूतेभ्यो द्रव्येभ्यः सूक्ष्माणि तथा बहूनि तथा तत्क्षेत्रभाविशब्दयोग्यद्रव्यवासकानि च, ततः सूक्ष्मत्वादतिप्रभूतत्वात्तदन्यद्रव्यवासकत्वाच्चात्मप्रदेशैः स्पृष्टमात्राण्यपिनिर्वृतीन्द्रियमध्येप्रविश्यझटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति, श्रोत्रेन्द्रियं च घ्राणेन्द्रियाद्यपेक्षया स्वविषयपरिच्छेदे पटुतरं, ततःस्पृष्टमात्राण्यपितानि श्रोत्रेन्द्रियमुपलभते, नास्पृष्टान्-सर्वथाऽऽत्मप्रदेशैः सम्बन्धमप्राप्तान्, श्रोत्रेन्द्रियस्यप्राप्तविषयपरिचछेदस्वभावत्वात्, यथा च श्रोत्रेन्द्रियस्य प्राप्तकारिता तथा नन्द्यध्ययनीकादौ चर्चितमिति ततोऽवधार्य, __'पुट्ठाई भंते ! रूवाई' इत्यादि सुगम, निर्वचनमाह-गौतम! न स्पृष्टानि रूपाणि पश्यति चक्षुः किन्त्वस्पृष्टानि, चक्षुषोऽप्राप्ताकारित्वात्, तच्चाप्राप्तकारित्वं तत्त्वार्थटीकादौ सविस्तरेण प्रसाधिततमितिततोऽवधारणीयं, गन्धादिविषयाणिसूत्राणि सुप्रसिद्धानि, नवरं स्पृष्टान्गन्धान् आजिघ्रति इत्यादि यद्यप्युक्तं तथापि बद्धस्पृष्टानिति द्रष्टव्यम्, यत उक्तमावश्यकनियुक्ती॥१॥ “पुढे सुणेइ सदं रूवंपुण पासई अपुढे तु।
गंधं रसंच फासंच बद्धपुटुं वियागरे ।" इति, तत्र स्पृष्टानिति पूर्ववत् बद्धानिति आत्मप्रदेशैरात्मीकृतान् ‘बद्धमप्पीकयं पएसेहिं' इति वचनात्, विशेषणसमासश्च, बद्धाश्च तेस्पृष्टाश्च बद्धस्पृष्टास्तान्, इह स्पृष्टाः स्पर्शमात्रेणापि भवन्ति यथा शब्दस्ततः स्पर्शमात्रव्यवच्छेदेन स्पर्शविशेषप्रतिपत्तिरव्याहतास्यादिति बद्धग्रहणं, बद्धरूपा ये स्पृष्टास्तान् परिच्छिनत्ति, नान्यानि, कस्मादेवमिति चेत् ?, उच्यते,
गन्धादिद्रव्याणां बादरत्वात् अल्पत्वादभावुकत्वाच्च घ्राणादीन्द्रियाणामपिच श्रोत्रेन्द्रियापेक्षयामन्दशक्तिकत्वादिति । सम्प्रति प्रविष्टाप्रविष्टविषयचिन्तांकुर्वनाह–'पविट्ठाई भंते! सद्दाई इत्यादि पाठसिद्धं, नवरंस्पर्शस्तनौ रेणुरिवापि भवतिप्रवेशोमुखेकवलस्येवेतिशब्दार्थस्य भिन्नत्वात् भिन्नविषयता स्पृष्टप्रविष्टसूत्राणामिति । सम्प्रति विषयपरिमाणनिरूपणार्थमाह
मू. (२५) सोतिदियस्स गंभंते ! केवतिए विसए पन्नत्ते?, गो०! जहन्नेणं अंगुलस्स असंखेजतिभागोउक्कोसणंबारसहिंजोअणेहिं तोअच्छिण्णे पोग्गले पुढे पविठ्ठातिंसदातिं सुणेति,
चकिखंदियस्सणंभंते! केवतिए विसएपं०?, गो०! जहन्नेणं अंगुलस्स संखेजतिभागो उक्कोसेणं सातिरेगाओ जोयणसतसहस्साओ अच्छिन्ने पोग्गले अपुढे अपविट्ठाति रूवाइं पासइ,
घाणिंदियस्स पुच्छा, गो०! जहण्णेणं अंगुलसंखेजतिभागो उक्कोसेणं नवहिंजोयणेहिंतो अच्छिन्ने पोग्गले पुढे पविठ्ठातिं गंधाति अग्घाइ, एवं जिभिदियस्सवि फासिंदियस्सवि।
वृ. सोइंदियस्स णं भंते ! केवइए विसए पं०' इत्यादि, इह श्रोत्रादीनि प्राप्तविषयपरिच्छेदकत्वात् अङ्गुलासङ्खयेयभागादप्यागतं शब्दादिद्रव्यं परिच्छिन्दन्ति, नयनं चाप्रप्तकारीति तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6cc195d7ab863bcdba797a08ce8cdff0eddf95669e1638a562269dedd515a04a.jpg)
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 342