Book Title: Adhyatma Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञायते तर्हि सत्तावान्सर्वतो निर्भयो भुवि । दृढनिश्चयतो ज्ञाने स्वाज्ञायां भुवनत्रयम् ॥२१३॥ दीपकं कः करे कृत्वा स्वमन्यत्र च मार्गयेत् । अन्तर्ज्ञानप्रकाशेन परस्मिन्किं निजो भवेत् ॥२१४॥ सिंहबालोऽजवृन्देषु बाल्यवासं विधाय च । स्वस्मिन्नजधियं धृत्वा वर्तते सोऽपि तैः सह ॥२१५॥ दृष्टकेसरिसिंहे तु स्वस्वरूपस्मृति यथा। परमात्मपदे ध्याते परमात्मा तथा भवेत्। ॥२१६॥ उपकत्तॊपयोगी च धीरः साहसिको दृढः । गुरौ श्रद्धाकरो भक्तो न्यायी शूरो विवेकवान् ॥२१७॥ स्वेच्छया न चलेद्य श्च भयलज्जाविवर्जकः एवं शिष्या विधास्यन्ति रागं स्वात्मपदे ध्रुवम् ॥२१८॥ द्वयर्थका जगतो वाचस्तत्र ध्यानं न दीयताम् । श्रवणं तद्विचारश्च स्वभानं नैव विस्मरेत् ॥२१९॥ जिज्ञासवः स्वतत्त्वानां,-शिष्याः प्रेमविधायकाः। अन्तस्तत्त्वे मनः कृत्वा लप्स्यन्ते क्षेममुत्तमम् ॥२२०॥ अन्तस्तत्त्वे यतश्चित्तं दशा शुद्धा प्रकाशते । यत्र शुद्धरुचि स्तत्र को भीरुश्च भवे भ्रमेत् ॥२२॥ भीरुः कायरतां धत्ते त्यजत्यान्तरनिश्चितम् । ग्राहग्रहणववृत्तिं धत्ते यः स्वपदे तमः ॥२२२॥
For Private And Personal Use Only

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206