Book Title: Adhyatma Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोगेन श्रीश्वरेच्छाया बन्धो भवति कर्मणाम् । सुखं दुःखं ततो याति जीवो निबंध उच्यते ॥४०३ ॥ अनादिपरिणाम्यस्ति चेतनपुद्गलद्वयम् । अशुद्धपरिणामेन कर्मकता स जायते ॥४०४॥ जीवस्य प्रेरणा चेन्न कर्मग्राही ततोऽस्ति कः। प्रेरणा न जडे काचि द्भिनं धर्मद्वयं ततः ॥४०५ ॥ चेतनप्रेरणायां हि कर्म सर्व प्रगृह्यते । प्रेरणा परभावोऽस्ति सदृशो मत्तचेष्टया ॥४०६ ॥ विचार्य हृदये पश्य कर्म न कर्मकारकम् । घटादिः प्रेरयेत्किच पवित्रं न्यायमीक्षताम् ॥४०७॥ चेतनः कर्मकर्तेति व्यवहारेण वर्तते । शुद्धस्वभावधर्मस्य कर्ताऽस्ति चेतनः स्वयम् ॥ ४०८ ॥ मूलं धर्म त्यजेनैव स्वभाव एष आत्मनः । प्रशुद्धपरिणामेन कर्मकता स वर्तते ॥४०४ ॥ परिणतं पयोनीर हंसो हि कुरुते पृथक् । रममाणो गुणे स्वीये हंसः कर्मक्षयंकरः ॥४१० ॥ विभाविकोऽस्ति यो धर्म श्वेतनस्य न विद्धि तम् । स्वाभाविकः स्वधर्मोऽस्ति विद्धि ज्ञानस्य मर्म तद् ।। ४११ ॥ स्वतः शुद्धस्वधर्मेण ह्यशुद्धपरिणामतः । वृतानां कर्मणां नाशो भगवद्भि निरूपितः ॥४१२ ॥ पदा निःसंग आत्माऽयं ज्ञेयो निश्चयसत्तया । कर्मकर्तृत्वभोक्तृत्वे वर्तेते व्यवहारतः ॥४१३॥ जन्मवाक्यमृत्यूनां,-दुःखस्य कर्म कारणम् । कर्मोदयफलंतत्स्यात् साताऽसाताख्यकर्मकम् ॥ ४१४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206