Book Title: Adhyatma Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यधर्म न जानन्ति तथाप्युपदिशन्ति ते । धर्ममर्मावबोधेन विना क्लेशं वहन्ति ते ॥१३२ ॥ अतिस्त्रीविषयासक्ति स्त्यागवैराग्यवर्जितः ।। लजयेत्साधुवेषं स यस्य चित्तं सदा चलम् ॥१३३ ॥ शिष्यो भूत्वाऽतिकोपेन वर्तते गुरुणा सह । करोत्यात्महितं नाऽसौ विनयी याति सत्पथम् ॥ १३४ ॥ कपटी कृष्णकाकाभः कर्मचाण्डालकागुरुः । तत्संगो नैव कर्तव्यः संभ्रमच्चक्रवद्भवे । ॥१३५ ॥ त्यक्त्वा बाह्यममत्वं त्वं धनमन्तर्विलोकय । अन्तर्धनं हि धर्मोऽस्ति सत्यमेवं विचारय ॥ १३६ ॥ ऋद्धयोऽन्तर्धनस्यैता अरूपा स्त्वयि संस्थिताः । ताश्च विस्मृत्य रे जीव !! किमन्यत्र प्रयास्यसि ॥ १३७ ॥ दुःखान्यन्यप्रयासेन पराधीनोऽन्यसंगतः । लीनोऽन्यपरिणामे यो भवान्तं न करोति सः ॥१३८ ।। वक्रं भ्रमति संसारी त्यागिनां सरला गतिः । भवभजनवीरेभ्यो गुरुभ्योऽस्तु नमोनमः ॥१३६ ॥ लग्नमाञ्जिष्ठरागस्तु कदापि नैव नश्यति । तद्वन्निजात्मरागेण कदाचिन विनश्यति ॥१४ ॥ पुत्रपुत्रीस्वदारभ्योऽप्यधिकं प्रेम चेद् गुरौ । प्राणाधिकगुरुप्रेमी भवाब्धि तरति स्वयम् ॥१४१॥ एक एव गुरुर्देवः पिता तत्र न संशयः । धर्मगुरुः स एकोऽस्ति मुनिरन्यो गुणालयः ॥ १४२ ॥ सदा धर्मगुरोरिप्सा भक्ति धर्मगुरोः सदा । वह धर्मगुरुं वित्ते सेवस्व स्वस्वशक्तितः ॥१४३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206