Book Title: Adhyatma Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तालपूटविषांशेन हन्यन्ते हस्तिनोऽसवः । स्वस्वधर्मै महत्सर्व-मनेकान्तनयेन तत् ॥२१६ ।। ईश्वरेण कृता सृष्टिः कदापि नैव कथ्यते । विवेकिनश्च जानन्ति हृदि सद्युक्तिमाप्य च ॥२१७ । तदर्थ एक एवाऽस्ति जीवो वाच्योऽथ चेतनः । ईश्वरसम आत्माऽस्ति कर्ता त्वीशो न निश्चितः ॥ २१ ॥ चतुरशीतियोनौ तु जीवा भ्रामन्त्यनन्तशः ते कर्माष्टकयोगेन लभन्ते दुःखसंचयम् ॥ २१ ॥ अनादिकालतो धृत्वा कर्मराशि स जीवति । बध्यते त्यज्यते कर्म पराशां कुर्वताऽऽत्मना ॥२२० ॥ भवितव्यत्वयोगेन कर्मनाशश्च जायते । अचलात्मस्वरूपस्य विकाशः स्यात्स्वभावतः ॥ २२१ ॥ ईशो विभुः परब्रह्म सुखधाम परेश्वरः । सोऽहंसोऽहं पदप्राप्तं प्रणमामि तमीश्वरम् ॥ २२२ ॥ कर्मक्षयेण जीवस्तु जायतेऽनन्त ईश्वरः। एकानेकात्मसिद्धात्म-तत्त्वं ज्ञान्यवगच्छति ॥ २२३ ।। कर्मक्षयात्समाः सिद्धा ज्ञानी जानाति बोधतः ।। भिभास्ते व्यक्तिरूपेण तुल्या व्यक्तगुणै स्तथा ॥ २२४ ॥ रागद्वेषौ न यस्य स्तः परभावे रति नहि । अनन्तात्मस्वरूपे यः रममाणः स शुद्ध्यति ॥ २२५ ॥ ध्यानेन चेतनं स्वीयं वेत्ति सत्प्रभुणा समम् । ध्याता ध्येयं तथा ध्यानं तदैक्येन भवेत्प्रभुः ॥ २२६ ।। सहस्रधा त्वहं वन्दे तादृशं सिद्धमीश्वरम् । सम्यग्रोधेन तस्याहं भवपारं लमे यथा ॥ २२७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206