________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तालपूटविषांशेन हन्यन्ते हस्तिनोऽसवः । स्वस्वधर्मै महत्सर्व-मनेकान्तनयेन तत् ॥२१६ ।। ईश्वरेण कृता सृष्टिः कदापि नैव कथ्यते । विवेकिनश्च जानन्ति हृदि सद्युक्तिमाप्य च ॥२१७ । तदर्थ एक एवाऽस्ति जीवो वाच्योऽथ चेतनः । ईश्वरसम आत्माऽस्ति कर्ता त्वीशो न निश्चितः ॥ २१ ॥ चतुरशीतियोनौ तु जीवा भ्रामन्त्यनन्तशः ते कर्माष्टकयोगेन लभन्ते दुःखसंचयम् ॥ २१ ॥ अनादिकालतो धृत्वा कर्मराशि स जीवति । बध्यते त्यज्यते कर्म पराशां कुर्वताऽऽत्मना ॥२२० ॥ भवितव्यत्वयोगेन कर्मनाशश्च जायते । अचलात्मस्वरूपस्य विकाशः स्यात्स्वभावतः ॥ २२१ ॥ ईशो विभुः परब्रह्म सुखधाम परेश्वरः । सोऽहंसोऽहं पदप्राप्तं प्रणमामि तमीश्वरम् ॥ २२२ ॥ कर्मक्षयेण जीवस्तु जायतेऽनन्त ईश्वरः। एकानेकात्मसिद्धात्म-तत्त्वं ज्ञान्यवगच्छति ॥ २२३ ।। कर्मक्षयात्समाः सिद्धा ज्ञानी जानाति बोधतः ।। भिभास्ते व्यक्तिरूपेण तुल्या व्यक्तगुणै स्तथा ॥ २२४ ॥ रागद्वेषौ न यस्य स्तः परभावे रति नहि । अनन्तात्मस्वरूपे यः रममाणः स शुद्ध्यति ॥ २२५ ॥ ध्यानेन चेतनं स्वीयं वेत्ति सत्प्रभुणा समम् । ध्याता ध्येयं तथा ध्यानं तदैक्येन भवेत्प्रभुः ॥ २२६ ।। सहस्रधा त्वहं वन्दे तादृशं सिद्धमीश्वरम् । सम्यग्रोधेन तस्याहं भवपारं लमे यथा ॥ २२७ ॥
For Private And Personal Use Only