________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न जन्येत जडं वस्तु, श्रीश्वरेण कदाचन । नेशे जडस्वभावोऽस्ति चेतसीति विचिन्तय ॥२०४ ॥ अनन्ता शक्तिरीशस्य जडशक्ति लघीयसी। जन्यते सृष्टि रीशेन युक्ति मेतां विचारय ॥२०५॥ युक्तिहीनविवादोऽस्ति श्रीशकर्तृत्ववादिनः। धर्मों जडेशयो द्वौ हि भिन्नौ तौ स्तो दिवानिशम् ॥२०६।। द्वयोरपि पृथग् धर्मों द्वावपि भिन्नधर्मिणौ । साकारोऽन्यो निराकारो रूप्येको रूपवर्जितः ॥२०७ ।। अनन्ता पौद्गली शक्ति श्विच्छक्तिरपि भूयसी । ज्ञातृत्वं चेतनाशक्ति जडशक्तिस्तु पौद्गली ॥२०८ ॥ तत्र शक्तिः स्वभावेन परतन्त्रो न कोऽप्यथ । निश्चयनयतो विद्धि ज्ञानी वदति चेदृशम् ॥२०६ ॥ अस्तिताऽनन्तशक्तीनां,-निजद्रव्येण वर्तते । परापेक्षां च संगृह्य नास्तिताऽपि प्रवर्तते ॥२१० ॥ अस्तिताऽनन्तशक्तीनां,-नास्तितैवाऽवलोक्यते। षड्द्रव्यव्यापिनी तां तु निश्चयेनेति जानत ॥२११॥ चेतनाचेजडोत्पत्तिः खराच्छंगं तदा भवेत् । . स्वप्नसुखाशिकां सत्यां तदा सत्येन जानत ॥२१२ ।। ईशस्थानन्तशक्तिस्तु श्रीश्वर एव माति सा कृपच्छाया यथा कूपे तद्वरुपायं विचारय ॥ २१३ ॥ जडशक्ति रनन्ताऽस्ति दृश्या पुद्गलधर्मतः। वर्णादिकमभूत्तत्र नान्यः कर्ताऽस्ति कश्चन ॥२१४ ।। निजाऽऽत्मापेक्षया शक्ति जडस्याऽस्ति लघीयसी । ज्ञात्वा सापेक्षया सर्व क्लेशं चेतसि मा कुरु ॥२१५ ॥
For Private And Personal Use Only