________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नैयायिका बदन्त्येवं सत्यं कर्नेश्वरो मतः। किन्तु युक्त्याऽवलोकेन तदसत्यं हि भासते. ॥१२॥ ईशेच्छया कदाचिच्च सृष्टि निर्मीयते नहि । निमित्तेच्छा यदि प्रोच्या स्वभावोऽपि कथं नहि ॥ १६३॥ तंत्र लभ्यं प्रमाणं किं दूरे कार्यः कदाग्रहः । स्वभावयुक्तित चेत्स्यानहि दोष स्तदा भवेत् ॥१६४ ॥ तिरोभावात्मिका शक्ति-र्योपादाने प्रवर्तते तदाऽऽविर्भावतैवाऽस्ति निजव्यक्तिः प्रपूरिता ॥१९५ ॥ वर्ततेऽनादिकालेन शुद्धशक्तिश्च वस्तुनि । आविर्भावाय तस्याऽस्तु निमित्ताभिधकारणम् ॥ १६६ ॥ आविर्भावस्तु धर्मस्य-कार्यरूपं हि जायते । घटस्य मृत्तिका हेतु रनन्यं कार्यमुच्यते ॥१७॥ नश्यति कारणं नैव घटनाशे कृते सति । नित्यत्वाद्वर्तते हेतु म॒त्तिकारूपमेव सः ॥ १६८॥ स्वभावो नियतिः काल उद्यमः कर्म पंच च । कार्य प्रति सदा हेतु मनस्यन्यन्न चिन्तय ॥१६॥ रागरोषौ न यस्य स्त ईश्वरः स च कथ्यते । तस्येच्छा चेत्प्रवाच्या स्या दीश्वरत्वं तदा व्रजेत् ॥२०॥ ईश्वरः कृतकृत्योऽभू-दिष्यते तेन किं पुनः । इच्छा यत्र ततो राग-द्वेषौ ताभ्यां च दुर्गतिः ॥ २०१॥ इच्छा हि भवमूलं स्याद् रागद्वेषसहायिनी । ईश्वरेच्छा यदा प्रोक्ता प्रतीपो मोह आगतः ॥२०२ ॥ नेच्छा तत्र कथं सौख्य मेवं चेत्कोऽपि संवदेत् । समाधौ तु सुखानन्त्य मिच्छा तत्र न जायते ॥२०३ ॥
For Private And Personal Use Only