________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किम्वा निमित्तहेतोः स्याद् विनोपादानकारणम् । उपादानं च को वाच्यः सत्यं ज्ञानेन वेद्यते ॥१८० ॥ जायते कार्यतः पूर्व सद्भावः कारणस्य च । कार्य मेवंविधं न स्याद् विनोपादानकारणम् ॥१८१ ।। अतिभिन्न मुपादाना-निमित्तं कारणं सखे ! शक्तिभि भिन्नभिन्नाभि रेकयोगः कथं भवेत् ॥ १८२॥ ईश्वरो नहि कल्प्येत कदापि सृष्टिकारणम् । न चेत्स रासभोऽपि स्यात्सद्युक्तिाय ईक्ष्यताम् ॥१८३॥ पृथ्व्यादिपरमाणूश्चेद् धृत्वा सृष्टिं करोति सः एवं चेदीश्वरे विद्याच् चैतन्यं कुत आगतम् ॥१८४ ॥ परमाणुसम्हैस्तु जडकार्य प्रजायते । चेतनस्तु ततो भिन्नः पावकोऽस्ति यथारणौ ॥१५॥ अनादिपुद्गलद्रव्यं तथा जीवोऽप्यनादिकः । निश्चयेन द्वयं भिन्न भिन्नशक्ति मपि स्मर ॥१८६ ।। जडे जीवपरीणामो व्यवहारनयात्खलु । विनाऽनेकान्तविज्ञानं सम्यक् सारमुपैति न ॥१८७ ।। द्रव्याण्यनादिकालेन षट् तत्कर्तेश्वरः कथम् ।। ईशशक्तिरनित्याऽस्ति नित्या वेति विचारय ॥१८८ ॥ नित्या कर्तृत्वशक्ति श्चेज-जगन्नित्यं भवेत्त दा । ईशशक्ति रनित्या चेद्विनश्येत्तजगक्षणे ॥१८६ ।। यथा कर्तृत्वशक्तिःस्या-त्कार्य भवति तादृशम् । नित्यानित्यविवेकेन पक्षौ द्वावपि दूषितौ ॥१६० ।। यदीशः साकृतिः कथ्य स्तदापि दूषणं भवेत् । पूर्वापरविचारेण दोषा आयान्ति भूरिशः ॥११॥
For Private And Personal Use Only