________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केचिल्लोकाश्च मन्यन्ते कर्तारमीश्वरं भुवि । ईशो दुःखं सुखं दत्ते वचोऽप्येतन्मृषा मतम् ॥१६८ ॥ द्वौ भेदावीश्वरस्य स्तो जीवसिद्धप्रकारतः । स्वस्वकर्मविधातारं जीवं जानत चेतसि ॥१६६ ॥ कृत्वा कर्म नवं जीवः स्वस्य दुःखसुखप्रदः। कर्ता भोक्ता च जीवोऽस्ति जीवः स ईश्वरो मतः ॥१७॥ चेतनमीश्वरं विद्धि व्यवहारनयेचतः। ईश्वरोऽशुद्धनीत्याऽस्ति सापेक्ष मिति जानत ॥ १७१ ॥ कर्ताऽन्यपरिणामेन चेतन ईश्वरो भवेत् । शुद्धनिश्चयनीत्या तु कर्म नैव करोति सः ॥१७२ ॥ सुखकर्ता स्वभावेन दुःखकर्ताऽविभावतः ।
आत्मा स्वगुणकर्ताऽन्यपरिणामविनाशतः ॥१७३ ॥ एकान्तपक्ष माधत्ते वेत्ति सापेक्षया नहि । संवदनीशकर्तुत्वं भ्रान्तः स निरपेक्षतः ॥१७४ ॥ यस्य कर्ममलं नास्ति निराकारः प्रभुः स्मृतः। कसै प्रयोजनायेशो जगत्कर्तेति जानत ॥१७॥ नामिमानं नचेच्छाऽस्ति शिवसिद्ध परप्रभौ।। किं स सृष्टिविधाता स्याद्भानं विस्मृत्य मन्यसे ॥ १७६ ॥ उपादानं यथैव स्यात्कार्य भवति तादृशम् । निराकारेण चेशेन जडसृष्टि ने रच्यते ॥१७७ ।। अभिनं जायते कार्य मुपादानात्यकारणात् । ईश्वरचे दुपादानं सृष्टिरूपस्ततो भवेत् ॥ १७८ ॥ उत्पत्तौ चेद्भवेदीशो निमित्तं नामकारणम् । नित्या शक्ति स्तदेशस्य वाऽनित्येति विचारय ॥१७६ ॥
For Private And Personal Use Only