________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धनाशाधारका धूर्ता वञ्चयन्ति जनान्भृशम् ।
आत्मधर्म विना धर्मो नास्ति मालादिधारणात् ॥१५६ ॥ मत्वा मिथ्या च संसारं तस्य मोहं परित्यजन् । योगाभ्यासरतो भूत्वा नाशयत्यखिलं मलम् ॥ १५७ ।। स्वगुणान्वेषणेनैव नश्यति कर्मणां मलम् ।। तदा प्रकाशते स्वान्त-श्चिदानन्दविलासनम् ॥१५८ ॥ स्वर्द्धिज्ञानाभिजात्माऽयं व्यक्तत्वेन निरीक्ष्यते । बाह्यार्द्धमोहतो दीना भ्रमन्ति मोहतो भवे ॥१५६ ।। यौवनं च धनं देहो विद्युद्भाइव कृत्रिमम् ।। न सहैति भवेऽन्यसिन् मूढा मुह्यन्ति तत्र हि ॥१६० ॥ केचिजीवा जडwथै नन्ति जीवाननेकशः। धून्याभं जीवनं तस्य भसाभं तद्विजानत ॥ १६१॥ जनान्वश्चयति स्वार्थ प्रोच्याऽसत्यवच च यः। भृत्वा सत्कर्मणां गोणी दुःखी जन्मनि जन्मनि ॥ १६२ ।। स्तेनः कर्णजपोऽन्येषा मपमानी च निन्दकः । स्वार्थी जनश्च संसारे-नरकस्यातिथि मैतः ॥ १६३ ॥ प्रशंसयति चात्मान-मभिमानं करोति च । लभते धर्मगुह्यं न निर्विवेकी च पापवान् ॥१६४ ॥ चित्ते परापकर्षेऽस्ति तथाज्यस्य कलङ्कदः । योमुदाऽऽरभते पापं गालिं दत्तेऽतिकोपतः ॥१६५ ॥ पापपुण्ये न जानाति गुरुबोधं दधाति न । जीवो नास्तिकवादी स किं शोधयति चेतनम् ॥ १६६ ॥ एकान्तं यो मतं धत्ते सोऽज्ञानी जीव उच्यते । भवे भ्राम्यत्यसौ नित्यं न धत्ते शाश्वतं सुखम् ॥१६७ ।।
For Private And Personal Use Only