Book Title: Adhyatma Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आश्रयो योऽस्ति बुद्ध्यादे श्चेतनं तं विजानत । आदिशब्देन ते ग्राह्याः सुखदुःखादयस्तथा ॥३६० ॥ बुद्ध्यादिराश्रितो यत्र सहि ज्ञेयो गुणालयः। रूपादिवद्धि विज्ञेया उपाया आत्मसिद्धये ॥३६१ ॥ गुणो निराश्रयो नैव यथा रूपं घटादिषु । तथाऽऽश्रयोऽस्ति बुद्ध्यादेश्चिदानन्दः परेश्वरः ॥ ३६२ ॥
शिष्य उवाच । आश्रयः किन्तु बुद्ध्यादे रिन्द्रियं हि प्रवर्तते । कल्पना चेतनस्य स्याद् कथं सद्गुरुराज हे ! ॥३६३ ।।
गुरुरुवाच । उपहतेन्द्रियै नैव जायते विषयस्मृतिः ।
आश्रयस्य विनाशेन स्मृत्युत्पत्तिः कथं भवेत् ॥३६४ ॥ कर्णेन्द्रियविनाशेन नाशः स्यात्तु स्मृते नहि । स्मृत्याश्रयस्तदात्माऽयं सत्यबोधं विजानत ॥ ३३५ ।। इन्द्रियमन्वभूधच विनाशे सति तस्य तु ।। अन्येन्द्रिये स्मृतिस्तस्य मिथ्यैवैतदपि स्फुटम् ॥ ३३६ ।। एवं सति तु चैत्रेण वस्त्वनुभूतमस्ति यद् । मैत्रस्य तत्स्मृतिश्च स्यात्तस्माद्व्यर्थमिदं वचः ॥३६७ ॥
शिष्य उवाच । नेन्द्रियाणि तदा सन्तु बुद्धिः स्यादाश्रयः पुनः । बुद्ध्याश्रयश्च देहोऽस्ति विचार्य कथयाम्यहम् ॥३६८ ।। शरीरनाशतो बुद्धि-नाशएव विलोकितः । भस्मीभूतं शरीरं चे-चेतनो नाऽपि दृश्यते ॥ ३६९ ।।
For Private And Personal Use Only

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206