________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यधर्म न जानन्ति तथाप्युपदिशन्ति ते । धर्ममर्मावबोधेन विना क्लेशं वहन्ति ते ॥१३२ ॥ अतिस्त्रीविषयासक्ति स्त्यागवैराग्यवर्जितः ।। लजयेत्साधुवेषं स यस्य चित्तं सदा चलम् ॥१३३ ॥ शिष्यो भूत्वाऽतिकोपेन वर्तते गुरुणा सह । करोत्यात्महितं नाऽसौ विनयी याति सत्पथम् ॥ १३४ ॥ कपटी कृष्णकाकाभः कर्मचाण्डालकागुरुः । तत्संगो नैव कर्तव्यः संभ्रमच्चक्रवद्भवे । ॥१३५ ॥ त्यक्त्वा बाह्यममत्वं त्वं धनमन्तर्विलोकय । अन्तर्धनं हि धर्मोऽस्ति सत्यमेवं विचारय ॥ १३६ ॥ ऋद्धयोऽन्तर्धनस्यैता अरूपा स्त्वयि संस्थिताः । ताश्च विस्मृत्य रे जीव !! किमन्यत्र प्रयास्यसि ॥ १३७ ॥ दुःखान्यन्यप्रयासेन पराधीनोऽन्यसंगतः । लीनोऽन्यपरिणामे यो भवान्तं न करोति सः ॥१३८ ।। वक्रं भ्रमति संसारी त्यागिनां सरला गतिः । भवभजनवीरेभ्यो गुरुभ्योऽस्तु नमोनमः ॥१३६ ॥ लग्नमाञ्जिष्ठरागस्तु कदापि नैव नश्यति । तद्वन्निजात्मरागेण कदाचिन विनश्यति ॥१४ ॥ पुत्रपुत्रीस्वदारभ्योऽप्यधिकं प्रेम चेद् गुरौ । प्राणाधिकगुरुप्रेमी भवाब्धि तरति स्वयम् ॥१४१॥ एक एव गुरुर्देवः पिता तत्र न संशयः । धर्मगुरुः स एकोऽस्ति मुनिरन्यो गुणालयः ॥ १४२ ॥ सदा धर्मगुरोरिप्सा भक्ति धर्मगुरोः सदा । वह धर्मगुरुं वित्ते सेवस्व स्वस्वशक्तितः ॥१४३ ॥
For Private And Personal Use Only