Book Title: Adhyatma Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्यक्त्वा रागादिकं शान्त्या खात्मध्यानं करिष्यति। . सम्यग् ज्ञानक्रियाभ्यां स भगवान् हि भविष्यति ॥ १२ ॥ वक्ति कश्चिद् क्रियावादी तर्ताऽस्मि भवसागरम् । क्रियया कर्मनाशोऽस्ति ह्याचारः सफलो मम ॥ १३ ॥ बाह्यक्रियासु संलिप्तो नान्त स्तत्त्वस्य वेदकः । पर्यटन् स भवे भ्रान्तो निर्ज्ञानोऽसौ क्रियाजडी ॥ १४ ॥ ज्ञानं हि मन्यते कोऽपि ज्ञानं सत्यं जगन्महत् । मुक्तिः कुत्र विना ज्ञानं ज्ञानेन भवपारगः ॥ १५ ॥ गृहात्येकान्ततश्चैवं यश्च चित्ते कदाग्रही। विनात्मतत्त्वबोधेन, तत्त्वज्ञानं न जायते ॥ १६ ॥ युवत्यंगेक्षणेनैव न तृप्ति विषयस्य च । भोजनज्ञानतो भ्रात ने बुभुक्षा प्रशाम्यति ॥ १७ ॥ पाक्पटुत्वेषु विद्वत्ता लोकरञ्जनहेतवे । पाचयन् पुस्तकं ग्रन्थं किं धत्ते शाश्वतं पदम् ॥ १८ ॥ परमाऽहमतिर्याव दभिमानेन वर्तते । तावज्ज्ञानी न कोऽप्यस्ति न शिवस्थानमश्नुते ॥ १६ ॥ वैराग्यादिगुणवातो यदाऽऽत्मनि प्रकाशतेसमभावै निरीक्षेत परमात्मपदं विशेत् ॥ २० ॥ विना त्यागं च वैराग्य-मात्मज्ञानं न जायते । लभते न शिवं धाम-कदापि ज्ञानमन्तरा ॥ २१ ॥ तदाद्रियेत ययुक्तं कदाग्रहनिवारणम् । पैराग्येषु मनः स्थाप्यं, रागश्च परमात्मनि ॥ २२ ॥ सम्यक्त्वमर्पितं येन गुरुदेवो महानसौमात्मज्ञानं बिना लभ्यं शिवधाम कदापि न ॥ २३ ।।
For Private And Personal Use Only

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206