Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti

View full book text
Previous | Next

Page 531
________________ ४९६ श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध भावणा॥५॥ एतावताव पंचमे महव्वते सम्मं काएण फासिए० अवट्ठिए आणाए आराहिए याविभवइ, पंचमं भंते ! महव्वयं ! इच्चेएहिं पंचमहव्वएहिं पणवीसाहि व भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामग्गंसम्मं काएण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यावि भवइ। त्ति बेमि॥ छाया- तस्येमा: पंच भावनाः भवन्ति तत्र इयं प्रथमा भावना-श्रोत्रतः जीवः मनोज्ञामनोज्ञान् शब्दान् शृणोति मनोज्ञामनोज्ञेषु शब्देषु नो सज्जेत नो रजेत नो गृध्येत् नो मूर्च्छत् नो अध्युपपद्येत नो विनिघातमापद्येत, केवली बूयात्-आदानमेतत्, निर्ग्रन्थः मनोज्ञामनोज्ञेषु शब्देषु सज्जमानः रजमानः यावत् विनिघातमापद्यमानः, शान्तिभेदाः शान्तिविभंगाः शान्ति केवलिप्रज्ञप्ताद् धर्मात् भ्रश्येत्, न शक्याः न श्रोतुं शब्दाः श्रोत्रविषयमागताः रागद्वेषास्तु ये तत्र तान् भिक्षुः परिवर्जयेत्। श्रोत्रतः जीवः मनोज्ञामनोज्ञान् शब्दान् शृणोति प्रथमा भावना। अथापरा द्वितीया भावना-चक्षुष्टो जीवः मनोज्ञामनोज्ञानि रूपाणि पश्यति मनोज्ञामनोज्ञेषु रूपेषु सजमानः यावत् विनिघातमापद्यमानः शान्तिभेदाः यावद् भ्रश्येत्। न शक्यं रूपमद्रष्टुं चक्षुर्विषयमागतं, रागद्वेषास्तु ये तत्र तान् भिक्षः परिवर्जयेत्। चक्षुष्टो जीवो मनोज्ञामनोज्ञानि रूपाणि पश्यति द्वितीया भावना। अथापरा तृतीया भावना-घ्राणतो जीवो मनोज्ञामनोज्ञान् गंधान आजिघ्रति, मनोज्ञामनोज्ञेषु गन्धेषु नो सज्जेत यावत् नो रज्जयेत यावत् नो विनिघातमापद्येत केवली ब्रूयात्आदानमेतत् मनोज्ञामनोज्ञेषु गंधेषु सज्जमानः यावत् विनिघातमापद्यमानः शान्तिभेदा यावत् भ्रश्येत्। न शक्यो गन्धनाघ्रातुं, नासाविषयमागतं, रागद्वेषास्तु ये तत्र तान् भिक्षुः परिवर्जयेत्। घ्राणतो जीवः मनोज्ञामनोज्ञान् गंधान् आजिघ्रति इति तृतीया भावना। ___अथापरा चतुर्थी भावना- जिह्वातो जीवः मनोज्ञामनोज्ञान् रसान् आस्वादयति, मनोज्ञामनोज्ञेषु रसेषु नो सजेत यावत् नो विनिघात-मापद्येत केवली ब्रूयात्-निर्ग्रन्थः मनोज्ञामनोज्ञेषु रसेषु सज्जमानः यावद् विनिघातमापद्यमानः शान्तिभेदा यावत् भ्रश्येत्। न शक्यः रसआस्वादयितुं जिह्वाविषयमागतः।रागद्वेषास्तु ये तत्र तान् भिक्षुः परिवर्जयेत्।जिह्वातो जीवः मनोज्ञामनोज्ञान् रसान् आस्वदते इति चतुर्थी भावना। अथापरा पंचमी भावना-स्पर्शतः जीवः मनोज्ञामनोज्ञान् स्पर्शान् प्रतिसंवेदयति मनोज्ञामनोज्ञेषु स्पर्शेषु न सजेत यावत् नो विनिघातमपाद्येत केवली ब्रूयात् आदानमेतत् ; निर्ग्रन्थः मनोज्ञामनोज्ञेषु स्पर्शेषु सजमानः यावत् विनिघातमापद्यमानः शान्तिभेदाः, शान्तिविभंगा: केवलिप्रज्ञप्ताद् धर्माद् भ्रश्येत् न शक्यः स्पर्शोऽवेदितुं स्पर्शविषयमागतः। रागद्वेषा

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562