________________
४९६
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध भावणा॥५॥
एतावताव पंचमे महव्वते सम्मं काएण फासिए० अवट्ठिए आणाए आराहिए याविभवइ, पंचमं भंते ! महव्वयं ! इच्चेएहिं पंचमहव्वएहिं पणवीसाहि व भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामग्गंसम्मं काएण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यावि भवइ। त्ति बेमि॥
छाया- तस्येमा: पंच भावनाः भवन्ति
तत्र इयं प्रथमा भावना-श्रोत्रतः जीवः मनोज्ञामनोज्ञान् शब्दान् शृणोति मनोज्ञामनोज्ञेषु शब्देषु नो सज्जेत नो रजेत नो गृध्येत् नो मूर्च्छत् नो अध्युपपद्येत नो विनिघातमापद्येत, केवली बूयात्-आदानमेतत्, निर्ग्रन्थः मनोज्ञामनोज्ञेषु शब्देषु सज्जमानः रजमानः यावत् विनिघातमापद्यमानः, शान्तिभेदाः शान्तिविभंगाः शान्ति केवलिप्रज्ञप्ताद् धर्मात् भ्रश्येत्, न शक्याः न श्रोतुं शब्दाः श्रोत्रविषयमागताः रागद्वेषास्तु ये तत्र तान् भिक्षुः परिवर्जयेत्। श्रोत्रतः जीवः मनोज्ञामनोज्ञान् शब्दान् शृणोति प्रथमा भावना।
अथापरा द्वितीया भावना-चक्षुष्टो जीवः मनोज्ञामनोज्ञानि रूपाणि पश्यति मनोज्ञामनोज्ञेषु रूपेषु सजमानः यावत् विनिघातमापद्यमानः शान्तिभेदाः यावद् भ्रश्येत्। न शक्यं रूपमद्रष्टुं चक्षुर्विषयमागतं, रागद्वेषास्तु ये तत्र तान् भिक्षः परिवर्जयेत्। चक्षुष्टो जीवो मनोज्ञामनोज्ञानि रूपाणि पश्यति द्वितीया भावना।
अथापरा तृतीया भावना-घ्राणतो जीवो मनोज्ञामनोज्ञान् गंधान आजिघ्रति, मनोज्ञामनोज्ञेषु गन्धेषु नो सज्जेत यावत् नो रज्जयेत यावत् नो विनिघातमापद्येत केवली ब्रूयात्आदानमेतत् मनोज्ञामनोज्ञेषु गंधेषु सज्जमानः यावत् विनिघातमापद्यमानः शान्तिभेदा यावत् भ्रश्येत्। न शक्यो गन्धनाघ्रातुं, नासाविषयमागतं, रागद्वेषास्तु ये तत्र तान् भिक्षुः परिवर्जयेत्। घ्राणतो जीवः मनोज्ञामनोज्ञान् गंधान् आजिघ्रति इति तृतीया भावना।
___अथापरा चतुर्थी भावना- जिह्वातो जीवः मनोज्ञामनोज्ञान् रसान् आस्वादयति, मनोज्ञामनोज्ञेषु रसेषु नो सजेत यावत् नो विनिघात-मापद्येत केवली ब्रूयात्-निर्ग्रन्थः मनोज्ञामनोज्ञेषु रसेषु सज्जमानः यावद् विनिघातमापद्यमानः शान्तिभेदा यावत् भ्रश्येत्। न शक्यः रसआस्वादयितुं जिह्वाविषयमागतः।रागद्वेषास्तु ये तत्र तान् भिक्षुः परिवर्जयेत्।जिह्वातो जीवः मनोज्ञामनोज्ञान् रसान् आस्वदते इति चतुर्थी भावना।
अथापरा पंचमी भावना-स्पर्शतः जीवः मनोज्ञामनोज्ञान् स्पर्शान् प्रतिसंवेदयति मनोज्ञामनोज्ञेषु स्पर्शेषु न सजेत यावत् नो विनिघातमपाद्येत केवली ब्रूयात् आदानमेतत् ; निर्ग्रन्थः मनोज्ञामनोज्ञेषु स्पर्शेषु सजमानः यावत् विनिघातमापद्यमानः शान्तिभेदाः, शान्तिविभंगा: केवलिप्रज्ञप्ताद् धर्माद् भ्रश्येत् न शक्यः स्पर्शोऽवेदितुं स्पर्शविषयमागतः। रागद्वेषा