Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 7
________________ kitatitikkkkkkkkkkkkakakkkkkkkkkk* आप्तमीमांसा. skskskkkkkkkkattatokkkkkkkkkkkatttttttttikattttitut पुण्यपापक्रिया न स्यात्प्रेत्यभावः फलं कुतः।। बन्धमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥४०॥ क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसम्भवः । प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् ॥ ४ १ ॥ यद्यसत्सर्वथा कार्यं तन्माजनि खपुष्पवत् । नोपादाननियामोऽभून्मास्वासः कार्य्यजन्मनि ॥ ४२ ॥ न हेतुफलभावादिरन्यभावादनन्वयात् । सन्तानान्तरवन्नैकसान्तानस्तद्वतः पृथक् ॥ ४३ ॥ अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृषा कथम् । मुख्यार्थः संवृतिर्न स्याद्विना मुख्यान्न संवृतिः॥ ४४ ॥ चतुःकोटेर्विकल्पस्य सर्वान्तेषूक्तययोगतः । तत्त्वान्यत्वमवाच्यं चेत्तयोः सन्तानतद्वतोः ॥ ४५ ॥ अवक्तव्यचतुःकोटिविकल्पोऽपि न कथ्यताम् । असर्वान्तमवस्तुस्यादविशेष्यविशेषणम् ॥ ४६ ॥ द्रव्याद्यन्तरभावेन निषेधः संज्ञिनः सतः । असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः ॥ ४७ ॥ अवस्त्वनभिलाप्यं स्यात्सर्वान्तः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ ४८ ॥ सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥ ४९॥ अशक्यत्वादवाच्यं किमभावात्किमवोधतः । आद्यन्तोक्तिद्वयं न स्यात्किं व्याजेनोच्यतां स्फुटम् ॥१०॥ *PIRATREETTETTERPATTERY 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来志名

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32