Book Title: Aapt Mimansa Author(s): Lalaram Digambariya Jain Publisher: Jain Granthratna Karyalay View full book textPage 5
________________ 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来老 आप्तमीमांसा. xttttttttttttttikk*** *ttttttt*************tattitttttttttitikaa* ******* * शेषभङ्गाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद्विरोधोऽस्ति मुनीन्द्र तव शासने ॥ २० ॥ एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथा कार्य बहिरन्तरुपाधिभिः ॥ २१ ॥ धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनन्तधर्मणः। आङ्गत्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता ॥ २२ ॥ एकानेकविकल्पादावुत्तरत्रापि योजयेत् । प्रक्रियां भङ्गिनीमेनां नयैर्नयविशारदः ॥ २३ ॥ इति प्रथमः परिच्छेदः। अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥ २४ ॥ कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् विद्याविद्याद्वयं न स्याद्वन्धमोक्षद्वयं तथा ॥ २५ ॥ हेतोरद्वैतसिद्धिश्चेद्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किम् ॥ २६ ॥ अद्वैतं न विनाद्वैतादहेतुरिव हेतुना । । सङ्गिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित् ॥ २७ ॥ पृथक्त्वैकान्तपक्षेऽपि पृथक्त्वादपृथक्तु तौ ! पृथक्त्वेन पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः ॥ २८ ॥ सन्तानः समुदायश्च साधर्म्य च निरङ्कुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिहवे ॥ २९ ॥ ***** E RTYRITE****** ***** ********** ***** * ******** ** *Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32