Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay
View full book text
________________
htttttttttttttttttttttttttttakti
***
kkkkkkkkkkatt****
Ekkkkkkkkkkkkkkkkkkkkkkkkkkk*****
जैनग्रन्थरत्नाकरे अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टाः स्वपौरुषात् ॥ ९१ ॥
इत्यष्टमः परिच्छेदः । पापं ध्रुवं परे दुःखात्पुण्यं च सुखतो यदि । अचेतनाकषायौ च बंध्येयातां निमित्ततः ॥ ९२ ॥ पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि ।
वीतरागो मुनिविद्वाँस्ताभ्यां युंज्यानिमित्ततः ॥ ९३ ॥ विरोधान्नोभयेकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥९॥ विशुद्धिसंक्लेशाङ्गं चेत्स्वपरस्थं सुखासुखम् । पुण्यपापास्रवो युक्तो न चेयर्थस्तवार्हतः ॥ ९५ ॥
___ इति नवमः परिच्छेदः। अज्ञानाच्चेद्धृवो बन्धो ज्ञेयानन्त्यान्नकेवली ।
ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद्बहुतोऽन्यथा ॥ ९६ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिनांवाच्यामिति युज्यते ॥९७॥
अज्ञानान्मोहिनो बन्धो नाज्ञानाद्वीतमोहतः । ज्ञानस्तोकाच्च मोक्षः स्यादमोहान्मोहिनोऽन्यथा ॥ ९८॥ कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः । तच कर्मस्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ २९ ॥ शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् ।। साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ १०० ॥
skkk************************tati*********kkkkkkitatt****
trepreferretty

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32