Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 21
________________ 未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来者 आप्तपरीक्षा. wwwwwwwwwww. 来来来来来来来来来来来来来来来客来来来来来来来来来来来来来来来来来来来来来来走走来来来来来来来来来来来来来私 देहान्तरात्स्वदेहस्य विधाने चानवस्थितिः । तथा च प्रकृतं कायं कुर्य्यादीशो न जातुचित् ॥ २० ॥ स्क्यं देहाविधाने तु तेनैव व्यभिचारिता । कार्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥ २१ ॥ यथानीशः स्वदेहस्य कर्त्ता देहान्तरात्मनः । पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥ २२ ॥ तथेशस्यापि पूर्वस्माइहादेहान्तरोद्भवात् ।। नानवस्थेति यो ब्रूयात्तस्यानीशस्त्वमीशितुः ॥ २३ ॥ अनीशः कर्मदेहेनानादिसन्तानवर्तिना । यथैव हि सकानस्तदवन्न कथमीश्वरः ॥ २४ ॥ ततो नेशस्य देहोऽस्ति प्रोक्तदोषानुषङ्गतः । नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥ २५ ॥ येनेच्छामन्तरेणापि तस्य कार्ये प्रवर्तनम् । जिनेन्द्रवद् घटेतेति नोदाहरणसम्भवः ॥ २६ ॥ ज्ञानमीशः स्वं नित्यश्चेदशरीरस्य न क्रमः । कार्याणामक्रमाद्धेतोः कार्याक्रमविरोधतः ॥ २७ ॥ तद्वोधस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलाववोधस्येष्टौ च स्वस्य मतक्षतिः ॥ २८ ॥ फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥ २९ ॥ अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेर्महेशेनाकरणेऽस्य स्वबुद्धितः ॥ ३० ॥ FFARPATT **** * **** 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 Kath *

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32