Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay
View full book text
________________
东主流述法求求求求求求求求求求求求求求求求求求求求求求求求求求求法
जैनग्रन्थरत्नाकरे.
xtttttttttttai
**kkkkkkkkkkkkkkkkkkkkkkattttttttttt**ktaktisattttttttttx
स्वयंज्ञत्वे च सिद्धेऽस्य महेशस्य निरर्थकम् । ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनम् ॥ ७४ ॥ तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः । कथंचिदीश्वरस्यास्ति जिनेशत्वमसंशयम् ॥ ७५ ॥ स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । सदेहः सर्वविन्नष्टमोहो धर्मविशेषभाक् ॥ ७६ ॥ ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते । शिवः कत्र्तोपदेशस्य सोऽभेत्ता कर्मभूभृताम् ॥ ७७ ॥ एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः । ज्ञानादर्थान्तरत्वस्याविशेषात्सर्वथा स्वतः ॥ ७८ ॥ ज्ञानसंसर्गतो ज्ञत्वमज्ञस्यापि न तत्त्वतः । व्योमवच्चेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७९ ॥ प्रधानं ज्ञत्वतो मोक्षमार्गस्यास्तूपदेशकम् । तस्यैव विश्ववेदित्वात्तृित्वात्कर्मभूभृताम् ॥ ८० ॥ इत्यसम्भाव्यमेवास्याचेतनत्वात्पटादिवत् । तदसम्भवतो नूनमन्यथा निष्फलः पुमान् ॥ ८१ ॥ भोक्तात्मा चेत्स एवास्तु कर्ता तदविरोधतः । विरोधे तु तयोर्भोक्तुः स्याद्भुजौ कर्तृता कथम् ॥ ८२ ॥ प्रधानं मोक्षमार्गस्य प्रणेता स्तूयते पुमान् । मुमुक्षुभिरिति ब्रूयात्कोऽन्योऽकिञ्चित्करात्मनः ॥ ८३ ॥ सुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः ।
विश्वतत्त्वज्ञतापायात्तत्त्वतः कपिलादिवत् ॥ ८४ ॥ *#PRAKRITERAPYAARITY
*****tt ***************
********
*******
*

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32