Book Title: Aapt Mimansa Author(s): Lalaram Digambariya Jain Publisher: Jain Granthratna Karyalay View full book textPage 6
________________ *********************** जैन ग्रन्थरत्नाकरे सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद्विधाप्यसत् । ज्ञानाभावे कथं ज्ञेयं बाहरन्तश्च ते द्विषाम् ॥ ३० ॥ सामान्यार्थी गिरोऽन्येषां विशेषोऽनाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः ॥ ३१ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ३२॥ अनपेक्षे पृथक्त्वैक्ये वस्तुद्वयहेतुतः । तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥ ३३ ॥ सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ ३४ ॥ विवक्षा चाविवक्षा च विशेष्येऽनन्तधर्मिणि । सतो विशेषणस्यात्र नासतस्तैस्तथार्थिभिः ॥ ३९ ॥ प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवृतिः । तावेकत्राविरुद्ध ते गुणमुख्यविवक्षया ॥ ३६ ॥ इति द्वितीयः परिच्छेदः । नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः व प्रमाणं व तत्फलम् ॥ ३७ ॥ प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्येऽविकार्यं किं साधोस्ते शासनाद्बहिः ॥३८॥ यदि सत्सर्वथा कार्य्यं पुंवन्नोत्पत्तुमर्हति । परिणामप्रकुलृप्तिश्च नित्यत्वैकान्तवाधिनी ॥ ३९ ॥ १ तदैवैक्यं इत्यपि पाठःPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32