Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 9
________________ आप्तमीमांसा. कार्य्यकारणनानात्वं गुणगुण्यन्यतापि च । सामान्यतद्वदन्यत्वं चैकान्तेन यदीष्यते ॥ ६१ ॥ . एकस्यानेकवृत्तिर्न भागाभावाद्वहूनि वा । भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते ॥ ६२ ॥ देशकालविशेषेऽपि स्याद्वृत्तिर्युतसिद्धिवत् । समानदेशता न स्यान्मूर्त्तिकारणकार्य्ययोः ॥ ६३ ॥ आश्रयाश्रयिभावान्न स्वातन्त्र्यं समवायिनाम् । इत्ययुक्तः स सम्बन्धो न युक्तः समवायिभिः ॥ ६४ ॥ सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधिः ॥ ६५ ॥ सर्वथा न हि सन्बन्धः सामान्यसमवाययोः । ताभ्यामर्थो न सम्बन्धस्तानि त्रीणि खपुष्पवत् ॥६६॥ अनन्यतैकान्तेऽणूनां सङ्घातेऽपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रान्तिरेव सा ॥ ६७ ॥ कार्य्यभ्रान्तेरणुभ्रान्तिः कार्य्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच्च न ॥ ६८ ॥ एकत्वेऽन्यतराभावः शेषाभावो विना भुवः । द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥ ६९ ॥ विरोधानो भयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७० ॥ द्रव्यपर्य्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ ७१ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32