Book Title: Meghdut samasyalekh
Author(s): Meghvijay
Publisher: Jain Atmanand Sabha
Catalog link: https://jainqq.org/explore/004080/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ aakastasisaksssssssssssssssssaidikes श्रीमात्मानन्द-प्रन्धरत्नमाला-चतुर्विशं रत्नम् (२४) RSS ०० महामहोपाध्यायश्रीमेघविजयविरचितो २ मेघदूतसमस्यालेखः। ००० &&&&&&&&&&&&SRssssssssREMEasat योधपुरवास्तव्येन दाधीच (दाधिमथ) कासल्योपाख्य-माधवकवीन्द्रनन्दनेन आशुकविनित्यानन्दशास्त्रिणा संशोधितः । १ .१.१.२.१... 82565/SS825555015-1675468S5555555081STRE55288057883CA .....9999999999000 0 0 प्रवर्तकश्रीमत्कान्तिविजयशिष्यश्रीमच्चतुरविजयोपदिष्टपत्तनवास्तव्यश्रीमालिज्ञातीयश्रेष्ठि-वस्ताचन्दात्मज भीखाचन्द-द्रव्यसाहाय्येन प्रकाशयित्री भावनगरस्था श्रीजनआत्मानन्दसभा. Rices वीरसं. २४४० आत्मसं १८ विक्रमसं १९७० EARATPATRaaqYPURANTPATRAPA For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ -warror श्रीआत्मानन्द-ग्रन्धरत्नमाला-चतुर्विशं रत्नम् (२४) पायश्रीमेघविजयविरचितो मेघदूतसमस्यालेखः । सच योधपुरवास्तव्येन दाधीच 'दाधिमथ ) कासल्योपाख्य-माधवकवीन्द्रनन्दनेन आशुकविनित्यानन्दशास्त्रिणा संशोधितः । प्रवर्तकश्रीमत्कान्तिविजयशिष्यश्रीमच्चतुरविजयोपदिष्टपत्तनवास्तव्यश्रीमालिज्ञातीयवेष्ठि-वस्ताचन्दात्मज भीखाचन्द-द्रव्यसाहाय्येन प्रकाशयित्री भावनगरस्थाश्रीलोतमात्मानिन्छलभादित श्री राम जैन आराधना केन्द्र, कोवा Published by Hall&bhadas Tribhuwandas Gandhi, Secretary, Jaina Atmanand Sabha, Bhavanagar. Printed at the."Lakshmi Vilas Press Co. Ltd. By C. L. Patel, in Bhau Kale's lane Baroda, for the Publisher 25-4-14. वीरसं. २४४० आत्मसं १८ विक्रमसं १९७० For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ ॥ प्रस्तावना ॥ अस्य सहृदयहृदयानन्दिमेघदूतसमस्यालेखस्य खण्डकाव्यस्य कवितारः श्रीमदकब्बरभूभृद्विश्राणितजगद्गुरुविरुदधारकवृहत्तपागच्छनायकश्रीमद्हीरवियसूरीश्वरशिष्यसंततिसंजातश्रीकृपाविजयान्तेवासिनो महोपध्यायाः श्रीमन्तो मेघविजया आसन्। यद्यप्यस्मिल्लेखे क्वापि स्वगुरोनाम स्वकीयसत्तासमयश्च साक्षान्नोपनिबद्धं तथाप्यस्यावसानगतस्य " माघकाव्यं देवगुरोर्मेघदूतं प्रभप्रभोः। समस्याथै समस्यार्थ निर्ममे मेघपण्डितः" ॥१३१॥ इत्येतत्पद्यस्यान्तर्वर्तिना आद्यपादेन श्रीविजयदेवगुरुवर्णनरूपमाघकाव्यसमस्यापूर्तिकाव्यस्य द्वितीयपादेन श्रीविजयप्रभसूरिविज्ञप्तिरूपमेघदूतसमस्यालेखस्य च एककर्तृत्वे सिद्धे माधकाव्यसमस्यापूर्तिकाव्यप्रशस्तिगताभ्याम्" तत्सेवासक्तचेता अनवरततया प्राप्तलक्ष्मीविशिष्य शिष्यः श्रीमत्कृपादेविजयपदभृतः सत्कवेर्वाचकश्रीः । मेघः पद्माप्रसादाद्विशदमतिजुषां श्राव्यकाव्यं चकार देवानन्दं सदैन्द्रोज्ज्वलवियुलधिया शोध्यतांशोध्यमत्र"। " मुनिनयनाश्वेन्दुमिते १७२७ वर्षे हर्षेण सादडीनगरे । ग्रन्थः पूर्णः समजनि विजयदशम्यामिति श्रेयः ॥" For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ २ इत्येताभ्यां पद्याभ्यां श्रीमत्कृपाविजयमुनिपुङ्गवानामन्तेवासित्वं वैक्रमीयेऽष्टादशे शते स्वकीयविद्यमानत्वं च प्रकटितमेव । एभिः कविचक्रचूडामणिभिरेतस्मादतिरिक्ता व्याकरण - काव्यज्योतिर्निमित्ताध्यात्मधर्मशास्त्रादिविषय पोषका दृष्टिसुधासे ककल्पा विरचिता अनेके ग्रन्था दृष्टिपथपान्थतां समायान्ति । अस्मिँलेखे कस्मिँश्चित्पुरे चातुर्मासिकीस्थितिं कुर्वद्भिः कविभिघदूतद्वारा श्रीदेवपत्तनस्थतपगणपतिश्रीमद्विजयप्रभसूरीश्वराणां कुशलवार्त्तादिसंसूचकं वाचिकं प्रेषयद्भिर्देवगिर्यादीनां वर्णनं कृतमस्ति, तत्तु बुद्धिमद्भिः स्वयमेवावभोत्स्यते इति नात्रा - तिकथनावश्यकतेति । 4 अस्यैकमेव पुस्तकं पत्तनस्थसागरगच्छीयपुस्तककोषात्समासादितं तस्यैवाधारेण योधपुरनिवासिभिराशुकविनित्यान्दशास्त्रिभिः संशोधितं टिप्पणीकृतं च । प्रुफपत्राणि तु श्रीमद्विजयानन्दसूरीश्वर शिष्य प्रवर्तक श्रीमत्कान्तिविजयचरणकमलचञ्चरीकायमाणैः श्रीमच्चतुरविजयाभिधानैर्विलोकितानि । अत एतयोरुपकृतिपरम्परां स्मृति गोचरतां नयामि । महता प्रयासेन शोधितेऽप्यत्र निबन्धे यत्र किमप्यशुद्धं कृतं जातं वा भवेत्तत्र संशोधनीयं धीधनैरिति प्रार्थयते— भावनगरस्था आत्मानन्दसभा । For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ ॥ श्रीमद्विजयकमलसूरीश्वरपादपद्मभ्यो नमः || श्रीमेघविजयोपाध्यायविरचितो मेघदूतसमस्यालेखः । ( मन्दाक्रान्तावृत्तम् ) स्वस्ति श्रीमद्भुवनदिनकृद्वीर तीर्थाभिनेतुः प्राप्यादेशं तपगणपतेर्मेघनामा विनेयः । ज्येष्ठस्थित्यां पुरमनुसरन् नव्यरङ्गं ससर्ज स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥ तस्यां पुर्यां मुनिगणगुरोर्विप्रयोगी स योगी नीत्वा मासान् कतिचिदचिराद्वाचिकं नेतुकामः । भाद्रे पञ्चम्युदयदिवसे मेघमाश्लिष्टसौध वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ मत्वा तस्याऽभ्युदयनदशां वायुनोत्रीयमानां चेतो वाचं झटिति गमनापेक्षमूचेऽस्य साधोः । प्रत्यासन्नेऽप्ययि ! तव गुरौ कार्यकार्यस्ति योगः कण्ठा श्लेषमणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥ १ भाद्रपदंसितपञ्चम्यां पत्रादिद्वारा संदेशः प्रेर्यत इति जैना प्रथा ॥ For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ २ मेघदूतसमस्यालेखः तद्विज्ञप्त्यै त्वरय रयतः स्वं पुनानाऽऽशुनाना भावैरेवं किमिव मनसोदीर्णवाक्यः स बालः । हस्ताम्भोजद्वयरचनया निर्मितार्चाय तस्मै .. प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥ कायं प्रायः पवनसलिलज्योतिषां संनिकायः ___ कार्थश्चायं प्रवणकरणैर्यो विधेयः समर्थः । । हर्षोत्कर्षादिति स सहसा चिन्तयन्नूचिवांस्तं कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥ जज्ञे भूमावतिविषमताऽन्योन्यसाम्राज्यदौस्थ्या- कश्चिन्मां नो नयति यतिनामीशितुर्तिवार्ताम् । तत्त्वां याचे स्ववशमवशासृष्टविश्वोपकारं यात्रा मोघा वरमधिगुणे नाधमे लब्यकामा ॥ ६ ॥ भ्रातस्त्रातस्त्वमसि भुवने जीवनं जीवनन्दी तापव्यापापहतिनिपुणस्तत्पयोवाह ! रम्या । गम्या चारै रुचिरनगरी देवकात्पत्तनाख्या बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥ ७ ॥ नित्यं चेतः स्फुरति चरणाम्भोजयोः सूरिराजः कायः सर्वैः समयविषयैः संनिबद्धान्तरायः । नो चेदीदृग्गुरुसुरतरुं प्राप्य कः स्यादवीयर्यान् न स्यादन्योऽप्यहमिव जनो यः पराधीनत्तिः ॥८॥ १ कुशलवार्ताम् । २ सूरिराजस्येत्यर्थः । ३ न चेत् अर्थात् कायस्य - विषयकृतविघ्नशुन्यत्वे । ४ अतिदूरवर्ती ॥ For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः श्रेयस्यर्थे प्रभवति बलादन्तरायस्तदस्य प्रध्वंसायाभ्युचितमचिरादाचिरेयं भजस्व । लाभोऽप्यत्र त्रिदशललनानेत्रसंवीक्षणैस्त्वां सेविष्यन्ते नयनसुभगं खेभवन्तं बलाकाः ॥ ९ ॥ अथ प्राप्तानुषङ्गं श्रीशान्तिजिनवर्णनम्देवः शान्तिर्भवति भविनां दुर्भवाम्भोधिसेतु- - हेतुर्भूयोऽनुभवभव'. भोगसंयोगलक्ष्म्या । दुष्टैः कष्टैर्व्ययभयमयैः संनियोगेऽङ्गभाजः सद्य:पाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ १० ॥ अस्याह्वानस्मरणकरणोद्भूतभूयःप्रभावाः श्रद्धाभाजो विततमुरजस्येव गर्जे निशम्य । नृत्यारम्भे जिनपतिपुरः सञ्जिगीषोः स्वरुच्या संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः॥११॥ अर्हत्यस्मिन् सृजति भवनोद्भासनं दीपरूपे चेतोवृत्तीबहलतमसश्छेदनाय प्रपद्य । स्यात्तत्राभिप्रणतमनुजस्वर्गिवर्गस्य चित्रं ___ स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥ हर्षाद्वर्षाविहितहितकृत्स्नात्रकृत्यः समनै तानीतैः प्रणयतु विभोश्वारुचर्या साम् .. , पलं कालभागविशेष उपलक्षणात्कालः। २ खभ आकाशगज ऐरावतस्तद्वान् । २ वराणि अङ्कानि भूषणानि यासां ताः । ३ अत्रैको गुरुवर्णस्नुटितः ॥ For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ मेघदूतसमस्यालेखः । कुर्वन्नुवी स्वतनुमतनुं तीर्थभावाश्रितानां ___क्षीणः क्षीणः परिलघुपयःश्रोतसां चोपभुज्य ॥ १३ ॥ देवस्यास्य प्रसवसमये दिक्कुमारीभिरुच्चै गन्धाम्भोदः प्रसृमरसुमाऽऽमोदशाली विचके। पित्रा तत्रार्जितसुकृततो विश्वशीर्षे त्वमेषि दिग्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥१४॥ उद्यद्भालारुणघृणिगणोन्मिश्रशुद्धाश्मगर्भ. च्छत्रेणैतां तनुमनुदिनं भासितामस्य पश्य । मन्दारद्भुप्रभवनिचयैः पथ्यनेपथ्यभाजो ___ बहेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ श्यामीभावं शमयितुमना वामभागे वितत्या प्रादक्षिण्यं नय गुरुमुरुश्रेयसा देवमेनम् । नृत्यासक्तामरवरवधूवेषवस्त्रायमाणः किश्चित्पश्चाद्वज लघुगतिर्भूय एवोत्तरेण ।। १६ ।। शङ्के राकातुहिनकिरणो वैश्वसेनिस्वरूपा चक्रे पूजास्पदमिह मृगं स्वस्य संवाहकं खे । .: न क्षुद्रेऽपि प्रथमसुकृतोद्भावजन्मोपकारः प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ रङ्कुश्चन्द्रं जिनमुखविभामोषसञ्जातदोष - पादाम्भोजे मखरमिषतोऽभ्यानयत्सप्रसादम् ।.. स्वीयोत्सङ्गे तदिव हरिणो धीयते शीतभासा सद्भावाः फलति न चिरेणोपकारो महत्सु ॥ १८ For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः गायन्तीनां जिनवरपुरश्चारुलीलावतीनां रूपोत्प्रेक्षाविवशमनसि त्वय्यथाग्रं प्रपन्ने । प्राप्तः स्वाहाशनजनमनःकाम्यतां मण्डपोऽपि मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ।।१९।। नानारत्नाभरणकिरणैर्भूषितां चूषितांच्या जैनीमची तव विनमतः काऽपि कान्तिर्भवित्री । यामालोक्याभिनवनवनैर्वर्णयिष्यन्ति सिद्धाः भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ! २० ॥ तस्याः स्नात्रे दनुजमनुजैर्गावपावित्र्यहेतौ ___ सृष्टे दिष्टया प्लुतमविरलं क्षीरमादेयमेव । तन्माहात्म्यात्पवनयवनस्तेऽभिभूत्यै प्रभुने रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥२१॥ लोकाः कुष्ठाद्गलितवपुषो निर्विरोकाः सशोकाः ___ अहेत्स्नात्रामृतभरसर स्नातमात्राः क्षणेन । भूत्वा भास्वल्ललिततनवो दिव्यभोगैर्भजन्ति . सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २२ ॥ ॥ इति जिनवर्णनम् ।। नास्मिन्मार्गेऽस्म्यहमयि ! गतस्तच्च यात्रानुवेश्म गत्वा.श्राद्धाः सदयहृदयाः संपदा संप्रदायाः। . १ दिवि स्वर्गे उषिताः यूषिता देवास्तैरा पूज्याम् । २ प्रतिमाम् । ३ नवीनस्तवैः । अर्चायाः (प्रतिमायाः) ४ पवनस्य यवनो वेगः॥ For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ मेघदूतसमस्यालेखः प्रष्टव्यास्ते गुरुमुखघनानिर्गलद्वाग्जलानां . - सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥२३॥ रत्नश्रेणीरचितनिचितस्वर्णसङ्कीर्णसौधे- .. ___वस्यां जालान्तरपरिलसल्लोलनेत्राकलापैः। शुक्लापाङ्गैर्मधुरवचनैर्वन्दनां वक्तुकामैः . ___ प्रत्युद्यातः कथमपि भवान् गन्तुंमाशु व्यवस्येत् ॥२४॥ वृष्टे ह्यत्र त्वयि प्रतिगृहं केतकोत्सेधहेतौ धारायन्त्रावलय उदितोत्तुङ्गरङ्गत्तरङ्गाः ।। अन्तर्मज्जत्सरसिजदृशां वक्रपझैः सपद्माः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥२५॥ प्रस्थानार्थ तव सवयसं प्रार्थयस्वार्थवन्तं । कासारं तं जलजरजसा पीतवासो वसानम् । सिन्ध्वा वध्वा अधरमधुरं यः पिबत्युन्नमय्य सभ्रूभङ्ग मुखमिव पयो वेत्रवत्याश्चलोमि ।। २६ ।। स्थित्वा तीरे ध्रुवमुपसरश्चञ्चलाचश्चलाँक्षीः - धाराहस्तैः कुसुममधुरां दर्शयेस्तां वनालीम् । या प्रायोग्यैः सुरतललितप्रक्रियाणां प्रियाणा__मुद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥२७॥ १ दशार्णा इवेति लुप्तोपमाऽलङ्कारः, दश ऋणानि जलदुर्गाण्यस्यां दशार्णा नदी । २ वेत्रवत्या वेत्रवृक्षशालिन्याः सिन्ध्या इति व्याख्येयम् । ३ ( उपसरः तडागसमीपे ) चञ्चलानि विद्युत् तद्वच्चञ्चलानि अक्षीणि यासां ताः स्त्रीः इति अण्यन्तकर्तुः कर्म ज्ञेयम् ॥ For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचिंतः संस्थानेन प्रहितमतुलं वीक्ष्य पकान्नवृन्द___मुद्यानेऽपि स्वतरुषु चलच्छाखिकानां मिषेण । पुष्पश्रेणी प्रहितुमनसि ( ? ) प्रोन्नतानां समेधि ___ च्छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम्॥२८॥ अस्यां पुर्या नरपतिनमन्मौलिमालार्चितांहिः साहेः पुत्रः सुनयनयनः पाति लोकान् पितेव । गीर्वाणस्त्रीसदृशसुदृशां तस्य सौधोगामी ___ लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २९ ।। नार्यः पुर्या प्रतिगृहमिह श्रेणिमापूर्य तूपैं सदिश्येशं प्रणयरचितं गानमुत्तानयन्ति । श्रुत्वा तास्त्वां रसितमसितैर्मोहयिष्यन्त्यपाङ्गैः स्त्रीणामाचं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३० ॥ रोदस्योस्त्वां परिचितमिति स्वीयचित्तेऽवधृत्य सीमन्यस्याः कृषिकरजना बीजराजी वितेनुः । संप्रत्येषाऽङ्कुरमुकुलनैः प्राञ्जलीभूय नम्रा कार्य येन त्यजति विधिना स त्वयैवोपपाधः ॥३१॥ धन्योऽसि त्वं जलदपटले ! दक्षिणस्यां प्रविश्य ___दृष्टं येन प्रवरनगरं सारमेतज्जगत्याः । भुक्ते भाग्ये भुवि नु मरुतां देवशैलाद्विधापि शेषैः पुण्यैर्हतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३२ ॥ अत्राश्लेष्टुं कमलवदना वीचिहस्तैः सरस्यः For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ मेघदूतसमस्यालेखः प्रोक्ताः कान्ता इव सुवयसां त्वां विजानन्ति शब्दैः। मुक्त्वा नस्त्वं विरहविधुराः कुत्र गन्तासि भोग्योऽ सि प्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३३ ॥ अस्यां मुक्तामरकतपविश्रीप्रसूनेन्दुरत्न पूगान् दृष्ट्वा तरणिशशिनोः श्रान्तकान्तिस्वरूपान् । पुण्यश्रेणीविपणिगणितान् विद्रुमच्छेदराशीन् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ।। ३४ ॥ ॥ इत्यवरगावादवर्णनम् ॥ अस्याः प्राच्या सुभगभगिनी देवगिर्याहयास्ति पूर्व प्रत्याश्रयमिह चिरं तस्थिवान् रामचन्द्रः। सस्तौ स्नेहादिह जनकजा लक्ष्मणः केलिमाधा- . दित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥३५॥ तस्यां छत्रायितसुरगिरौ वप्रमौलिं दधत्यां ____राज्ञस्तूदिगुणितरवैर्नर्तयेथा मयूरान् । गेहेपूच्चैः प्रसवनिचयाकीर्णमध्येषु नूनं __नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ।। ३६ ॥ एतत्पुर्याः पुरएरिसरादाम्रकम्रातपत्रा त्तत्रासीनो नगरसुषमा मार्गयाद्रौ विनिद्राम् । १ असि, . प्राऽव, अतः इतिच्छेदः । त्वं भोग्योऽसि, अतः प्राव रक्षेत्यर्थः॥ For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ श्री मेघविजयोपाध्यायविरचितः कासाराणां विकचकमलामोदिभिः सेव्यमानस्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ।। ३७ । स्नात्रे श्राद्धैखिभुवनगुरोस्तत्र निर्मीयमाणे नानारत्नांशुकरचनया भूषिते भूमिभागे । सद्यो वाद्यानुचरचरितैः शब्दयनन्दरत्न मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ||३८|| पीनो तुङ्गस्तनभरनता गात्रसौन्दर्य भाजो वामाः पुष्पैर्वृषभ भगवत्पूजनं कर्त्तुकामाः । मूर्तेः स्नानादिव समुचितान् प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ ३९ ॥ आश्लेषार्थं सुहृदिव गिरिः शाखिबाहून् वितत्य तत्रार्चास्तास्तव विरचयिष्यत्यनर्घ्यप्रसूनैः । गृह्णन् जन्माप्यविरलफलं मानयिष्यत्यमयैः शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान् यः ॥ ४० ॥ तारुण्येन स्मरपरवशां शिक्षितानां प्रवृत्तिं रात्रौ स्त्रीणामुपपतिगतौ श्रोणिभारालसानाम् । देह्यालम्बं विमलतडिता दर्शयंस्तत्र मार्ग तोयोत्सर्ग स्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ४१ ॥ १ अपो ददातीति अब्दो मेघः । २ याः अर्चाः पूजा: ( कर्म ) भवान् अमत्यैः देवैः ( करणैः ) मानायष्यति । २ पाठान्तरे " धर्मस्थानागुरुगुणकथावश्यकान्तोत्थितानाम् ॥ " For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ मेघदूतसमस्यालेखः इत्येतस्मान्नगरयुगलाद्वीक्ष्य केलिस्थलं त्व___ मीलोराद्रौ सपदि विनमन्पार्चमीशं त्रिलोक्याः । भ्रातः ! प्रातर्ब्रज जनपदस्त्रीजनैः पीयमानो मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ।। ४२ ॥ त्वामुद्यान्तं नभसि सहसाऽवेक्ष्य कान्ता वियुक्ता___ स्वासव्यासं दधति सरसां पार्श्वमस्माजहीहि । रात्रौ म्लाना इह कमलिनीर्मोटि'तुं भानुमाली प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४३ ।। मार्गे यान्तं बहुलसलिलैर्दाववह्निप्रशान्ते गोत्रैः क्लृप्तोपकृतिसुकृतं रक्षितुं त्वां नियुक्ताः । नद्यस्तासां प्रचितवयसामर्हसि त्वं न धैर्या न्मोघीकर्तुं चटुलशफरोद्वर्त्तनपेक्षितानि ॥ ४४ ।। काचित् कान्ता सरिदिह तव प्रेक्ष्य सौभाग्यभङ्गी मङ्गीकुर्याचपलसलिलावर्तनाभिप्रकाशम् । चक्रोरोजावरुणकिरणाच्छादनात्पीडयास्याः ___ ज्ञातास्वादो विपुलजघनां को विहातुं समर्थः ॥ ४५।। वर्मन्यस्मिन् विविधगिरयस्त्वत्परिस्यन्दमन्दी भूतोत्तापाः क्षितिरुहदलैस्तेऽपनेष्यन्ति खेदम् । पुष्पामोदी करिकुलशतैः पीयमानस्तवातः शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥४६॥ १ विकासयितुम् (भानुमाली सूर्यः ) ॥ For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः गत्यौत्सुक्येऽप्यणकिटणकीदुर्गयोः स्थेयमेव पार्श्वः स्वामी स इह विहतः पूर्वमुशिसेव्यः । जाग्रद्रूपे विपदि शरणं स्वर्गिलोकेऽभिवन्द्य__मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४७ ॥ उत्पत्त्यास्मात्मणम विपुले तुङ्गिआशैलशृङ्गे रामं कामं श्रमणवृषभं बोधितारं पशूनाम् । तत्संबुद्धान्वयजशिखिनो मूर्तिमस्याभिषिच्य पश्चादद्रिग्रहणगुरुभिर्जितैर्नर्तयेथाः ॥ ४८ ।। वर्षाभिस्ते शिखरिशिखरा रिकाणां प्रवाहैः सिन्धुः पूर्णा ह्यवनिवनिताचङ्गेनीरङ्गिकेव । जेष्यत्येष्यन्नवजलभरासङ्गमोत्फेनराशिः श्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥४९॥ उत्तीर्याथ त्वयि शिखरिणां धोरणेनिम्नभावा लीने भूमाविव जलललच्छैवलिन्योः प्रसङ्गे । द्रक्ष्यन्त्योघं त्रिदशवनिताः स्निग्धतापात्रनेत्र रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥ एष्यत्यग्रेऽभ्युदयकमलामन्दिरं बन्दिरं श्री सूर्याख्यं ते नयनविषयं स्वर्णपूर्ण क्रमेण । १ ‘तुनिआ ' इति नामं । अवनिरेव वनिता स्त्रीः तस्याः चङ्गा मनोहरा नीरङ्गिका मुखावगुण्ठनमिव ॥ For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ १२ मेघदूतसमस्यालेखः . संगन्तास्मिन् सुहृदपि घनो मालवात्ते स्वगात्रं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ ५१ ॥ सभ्येभ्यानामहमहमिकावृद्धसौधाग्ररत्नै रातिथ्यं ते बहु विरचयन्मानयेस्तत् पुरापि। . हैमैः श्राद्धवज इह गुरोरागमे मार्गणानां धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ५२ ॥ श्रीमान् पार्थप्रभुरिह जयत्यग्रजाग्रत्प्रभाव स्तस्य स्नात्रामृतसमुदयैः पूयते तापिकाऽपि । संसृज्यैनां रुचिररमणीस्नानकर्पूरपूर्णा मन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥५३॥ तस्माद्गच्छेरनु भृगुपुरं सिन्धुबन्धुप्रसक्ता मद्रे हामिव शशिसुतां पूर्वगङ्गेति नाम । रक्षन्ती या प्रसृमरजटाघट्टदम्भावटस्य शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५४ ॥ रेवातीरे भृगुपुरवरस्फाटिकावासराजी .. तस्या बिम्बं विमलसलिले स्वर्धनीवापराऽस्ति । तत्र च्छाया परतटमथालम्बते ते तदैषा स्यादस्थानोपगतयमुनासङ्गमेनाभिरामा ।। ५५ ॥ अग्रे दृष्ट्वा जलमयमहीवन्महीनामसिन्धु सिन्धोरूर्मीपृथुतरभुजैर्गाढमालिङ्गयमानाम् । For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः लब्धा स्तब्धाब्धिकफनिचयाभ्यासवर्ती हिमाद्रौ शोभा शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ।। ५६ ॥ स्थाने स्थाने सरणिधरणीभृद्भिरागृह्यमाणा तन्वी खेदादुपपैति सरेत्तर्हि नीरैस्तथाऽस्याः। कुर्याः पौष्टयं स्खलति न यथा भूषिता चरत्नै___ रापन्नार्तिप्रशमनफलाः संपदोऽद्युत्तमानाम् ।। ५७ ॥ उत्तीर्णस्तां हरिगृहपुरं प्राप्य तत्कौतुकार्थी ___व्यालम्बेथा मणिमयशिलाप्रौढसभ्यालयालीम् । यत्ते द्विष्टाः पवनयवनास्तत्र भङ्गं लभन्ते के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः॥५८॥ तत्र व्यक्तं दृषदि चरणन्यासमासज्य पूज्यं राज्याधीशैर्विजयपदतः सेनसूरेजस्व । तीर्णान्यन्यान्यपि सुमनसो यानि दृष्ट्वेव भव्याः सङ्कल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ।। ५९ ।। स्त्रीवक्राब्जे भ्रमरललितं सुभ्रुवोः प्रेक्ष्य तत्र ___ कान्तारेऽब्धेस्तटमनुसरेस्साभ्रमत्याः प्रसङ्गि । वीचीनृत्यैस्तव घनरवैर्वेणुवादैर्जनस्य सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ६० ॥ १ लब्धा प्राप्स्यतीत्यर्थः । २ अब्धिकफः फेनः। अभ्यासः सामीप्यम् , दन्त्योपान्त्योऽप्ययं शब्दः। ३ पत्युः खमनःकल्पितस्य दयितस्य समीपं उपपति, ( सरेत् अभिसरेत् ) । ४ चक्रस्थाने 'चारु ' इति स्याचेद् वरम् ॥ For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ मेघदूतसमस्यालेखः सिन्धोर्वेलाशिखारिषु तवाभ्यागमात्पुष्पितेषु स्थित्वा रात्रावविरतरतश्रान्तविद्युद्वधूकः । किञ्चित्सांचीकृतनिजतनुः पश्चिमामाश्रयेथाः श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ६१ ॥ सौराष्ट्रीणां हृदि विरचयन् विन्दुभिर्मौक्तिकालीं पावित्र्यार्थे ननु निजतनोः सिद्धेशैलं भजेथाः । यः शृङ्गस्थोन्नतजिनगृहच्छत्र गौसंशुभासी १४ राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ६२ ॥ मन्ये नन्तुं वृषभ भगवत्पादयुग्माम्बुजन्म तत्रारूढे त्वयि शिखरिणः स्निग्धवेणीसवर्णे । भृङ्गव्याप्ताविव हि कुमुदस्तस्य शोभा भवित्री - मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६३ ॥ गन्धालीढैः कुसुमसलिलैः पूजनायां जिनेन्दो न्देऽलीनां स्फुरति परितो भाविनी काऽपि शोभा । भावार्हन्त्ये चिकुरनिचये वाञ्जनाभे सलीलमंसन्यस्ते सति हलभृतो मेचके वाससीव । ६४ । ( पाठान्तरम् ) -- संपूज्याऽऽरात्रिकरचनया विद्युतो मरुदेवं स्तोत्रैर्मन्द्रध्वनितजनितैश्चाभिनन्द्यात्मशुद्धयै । - १ तिर्यक्कृतस्वशरीरः | २ सिद्धाचलं शत्रुञ्जयापरपर्यायं जैनमहातीर्थम् । ३ भृङ्गव्याप्तां भ्रमरकृते आक्रमणे सति कुमुदः कुमुदस्येव तस्य सिद्धाचलस्येत्यर्थसंबन्धः । ४ मरुदेवाया अपत्यं ऋषभमित्यर्थः ॥ For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ श्री मेघविजयोपाध्यायविरचितः अः स्त्रीणां विषमसरणौ श्रोणिभारालसानां सोपानत्वं कुरु मणितटारोहणायाग्रयायी ।। ६५ ।। आस्थाय 'श्रीवृषभविभुना सोयमष्टापदाभः पूतस्तेनात्मनि जलभृते मानसत्वं विदध्याः । यास्तत्रान्महनेविधये स्वेर्वशाः स्नान्ति नैव क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भापयेस्ताः ॥ ६६ ॥ वर्षोत्कर्षैर्द्वमसमुदये विद्रुमाभां वितन्वन् मत्वा सिद्धस्थलमनुपदं नर्त्तयन् मोरसार्थान् । नित्यं शत्रुञ्जयर्मनुनयन् वातलूनैः प्रसूनै + र्नानाचेप्रैर्जलद ! ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६७॥ उद्यातोऽस्माद्गुरुयुगपदन्यासमानम्य सम्यग् वार्धावन्तः पुलिन निवसद्वीपपुर्यामवेयाः । प्रावृट्काले वहति निलयैर्या जलान्युद्भिरद् वो मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् || ६८॥ श्रेणीभूतापणविलुलितव्यक्तमुक्ताम्बुधाराः कान्ताकान्तिस्फुरिततडितस्तोरणेन्द्रायुधाढ्याः । नित्यं नृत्यप्रहतमुरजस्निग्धगम्भीरनादाः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६९ ॥ भुक्त्वा सौख्यं चतुरवनितागात्रधाराग्रहस्तस्पर्शः पुष्पोपवनपवनाश्लिष्टरम्भाः प्रपश्यन् । १ पूजार्थम् । २ देवाङ्गनाः । ३ प्रसादयन् ॥ For Personal & Private Use Only १५ Page #21 -------------------------------------------------------------------------- ________________ १६ मेघदूत समस्यालेखः रोधः सिन्धोरनुभव मुदा यत्र योधा रमन्ते' प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाः ॥ ७० ॥ गर्जेरूर्जस्वलजलनिधेः क्षोभभावं प्रणेष्यन् क्षेमावाप्तं त्रिदशनगरं त्वं विशेस्तातपूतम् । द्यावाभूम्योः प्रमुदचरितं वक्ति साक्षाद्रुमेषु सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ७१ ॥ अथ श्रीदेवपत्तनवर्णनम् - शास्तीत्येवं गुरुपरिचितं यत्पुरं दह्यमान धूपव्यक्त्या चिकुरवलयैर्नृत्य कृत्केतुहस्तैः । लक्ष्मीवासाम्बुजमहममी षट्पदास्ते न यद्वा वित्तेशानां न खलु च वयो यौवनादन्यदस्ति ॥ ७२॥ दण्डश्चैत्ये कुसुमचिये बन्धनं विप्रयोगो दातुर्द्वारे चलकुटिलता सुभ्रुवोर्नान्यलोके । केशासत्या (१) गुरुदहनोद्धूतधूमस्य मन्ये वित्तेशानां न खलु च वयो यौवनादन्यदस्ति ॥ ७३॥ ( पाठान्तरम् ) रात्रौ यस्यां कथमपि समानीय सञ्चारिकाभिवसावासं प्रणयिस विधे स्थापिता या नवोढा । तासां भोगादरिणि रमणे दीपमुद्दिश्य मुक्तो हीमूढानां भवति विफलप्रेरणचूर्णमुष्टिः ॥ ७४ ॥ १ वियोगो ब्राह्मणयोगश्च ॥ For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ श्री मेघविजयोपाध्यायविरचितः लक्ष्म्याः स्थानं तदिति मतिमान् वर्धयत्यूर्मिहस्तैमुक्तायुक्तः पुरपरिसरे स्वाङ्कमासार्य सिन्धुः । तत्सुप्रापैः कनकसिकता राशिगुप्तैः सखीभिः संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७५ ॥ कामादेशाद्गमनसमयेऽलक्तकव्यक्तपादन्यासैर्वासैर्मसृणघुसृणा लेपनैर्यत्र भित्तौ । . मुक्तास्रग्भ्यो विलुलितकणैः कङ्कणैः शीर्णबन्धैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ७६ ॥ मुक्ताहारा इव वरभुवः सन्ति यस्यां विहाराः शाटी पुर्याः कुवलयैदृशः श्रेयसी पुष्पवाटी | शालास्त्यागप्रकृतिकृतिभिर्निर्मिताः श्रीविशालाः नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥७७॥ यैरासङ्गादिव जलनिधेः प्रापि रत्नाकरत्वं सार्धं नित्यं मुनिगुरुगुणोद्गातृभिस्तेऽर्थितीर्थम् । श्रान्तं तारान्वितमिव दिवः खण्डमुद्दण्डपुष्पं १७ बद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ७८ ॥ राज्ञः सौधावलिषु तपनोत्सर्पणात्सूर्यकान्तैस्ततैरुमा य इह जनितो दुष्कलेस्तापरूपः । तं चैत्यस्थाः सपदि शरदश्चन्द्रपादानुवादादयालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥७९॥ १ स्वकीयकन्याया इत्यर्थः । २ जिनमन्दिराणि । ३ कुवलयदृशः - स्त्रीरूपायाः पुर्याः पुष्पवाटी एव शाटीति संबन्धः ॥ २ For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ १८ मेघदूतसमस्यालेखः धन्यास्तेऽस्यां प्रतिदिनमहो श्रीगुरोर्वक्रपद्मात प्राप्तस्यन्दं प्रवचनरसं ये निपीयैव भव्याः । शृण्वन्त्युच्चैः पदरचनया गायनोद्गीतकीर्ति त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ।। ८० ॥ पीनोत्तुङ्गस्तनपरिचयी कञ्चकः पुष्पजालैः पत्रैश्चित्रैर्भवति रसना पल्लवैः शेखरश्रीः । आम्रो भृङ्गावलिवलयितोऽस्मिन् युगे सातिरेक__ मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ।। ८१ ॥ वातोद्धान्तैः सलिलपृषतैः क्षोभयन्तो मृगाक्षी गौतुं वृत्ता गुरुगुणपदं पुण्यलावण्यभाजः । साध्वीस्पर्शादिव कलुषितास्तोयदा यत्र जालै धूमोद्दारानुकृतिनिपुणा जर्जरा निष्पतन्ति ।। ८२ ॥ कामोऽपि स्वं प्रगुणयति नो कार्मुकं पुष्परूपं मौर्वीभङ्गादिव नववधूश्वासलोभादलीनाम् । यूनां चेतो व्यथननिपुणैः काक्षबाणैः सनाथै स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ।। ८३ ।। तस्यां वरः सुरगिरिगुरुः काश्चनः काञ्चनाभां ___तुङ्गैः शृङ्गैर्वहति तरणेरप्यनुल्लङ्घनीयः । यन्मूर्धस्थै रसिकपुरुषैः स्पृश्यते स्वर्गतोऽपि हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ८४ ॥ सा . १ पाठान्तरे “ मज्जरीहैमहारः " ॥ For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः १९ सिन्धोस्तत्रानुज इव लसद्वीचिवासास्तडाग उद्यानान्तस्तरुणवयसो दीर्घिकास्तस्य कान्ताः । तासां चञ्चन्नयननलिनैर्मोहिता मानसाम्भो न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥८५॥ बद्धोत्साहा गमनगहने वातवद्वाजिराजी राज्ञः स्वर्णाभरणसुभगः सामजानां समूहः । यस्यां दानस्रवणनियतोदस्तहस्तः प्रशस्तः प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ।। ८६ ।। नव्यो भव्यैर्मरकतशिलानिर्मितोऽस्त्याश्रमोऽस्यां . गर्जगानानुगतमुरजः साधुनाथैः सनाथः । नित्यं व्याख्यापरिषदि वृतं तोरणैः काञ्चनीयैः प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८७ ।। (पाठान्तरम् ) अथ श्रीगुरुवर्णनम्तत्रास्माकं विभुरभिनवैः पात्रचन्दैः परीतः स्फीतच्छायो वकुलकमलां संनिधत्ते प्रतीकैः । किन्त्वक्षुब्धो मनसि भगवांश्चारुनार्या विलासैः काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥४८॥ नम्रानेकक्षितिपतिशिरोमौलिरत्नैर्नखानां संयोगेन प्रभुचरणयोर्जायते सा विभूषा । - तरुणानि वयांसि पक्षिणो यत्र ताः, अन्यत्र यौवनावस्थाशालिन्यः। .. २ हस्तिनाम् ३ अझैः ॥ For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ मेघदूतसमस्यालेखः व्यक्तीजं नटनरुचितश्चन्द्रकाणां प्रचारै यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥ ८९ ॥ नित्याह्लादैः श्रमणमणिभिस्तत्र सेव्यांन्हिपद्म. स्तेजोराशिः प्रसूमरयशा राजते मूरिसूर्यः । यदूरस्थो विदुरमघवाऽप्या ते तां न शोभा सूर्यापाये न खलु कमलं पुष्पति स्वामभिख्याम् ॥१०॥ गत्वा सूर्योदयनपुरतस्तत्र शोणाणुमूर्त्या भक्तिं चन्द्रोदयरचनया व्यञ्जयनस्य सूरेः । दर्श दर्श वदनमलसां मोदपूर्णा पुनीथाः खद्योताली विलसितनिभां विद्युदुन्मेषदृष्टिम् ।। ९१ ॥ यस्य ब्रह्मनतमविरतं बिभ्रतश्चित्तवृत्ति शच्यास्तस्या अपि मधुरता नेतुमीशा न मोहम् । . पीनोरोजा सरसिजमुखी क्षाममध्याऽऽयताक्षी या तत्र स्यायुवतिविषये सृष्टिराद्यैव धातुः ॥ ९२ ॥ प्राप्तक्षोभा विजयिनि गुरौ देवनाम्नीह पूर्व मोहादीनामसमपरिषच्छङ्कया शङ्कुकल्पा। साम्राज्येऽस्य प्रशमपवनैर्वेपमानां भयात्तां जातां मन्ये तुहि मथितां पद्मिनी वान्यरूपाम् ॥१३॥ १ पण्डितेन्द्रः मद्रूप इति भावः । २ 'आप्नुते' एतत्स्थाने 'अश्नुते' इति भवेत् । आप्नोतिर्हि आत्मनेपदी न वर्तते । ३ सौन्दर्यम् । ४ 'शिशि. रमथितां' इत्यपि पाठः॥ For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः २१ स्वामिन्यस्मिन्नधिगतवति प्राज्यसाम्राज्यलक्ष्मी कीर्तिक्षीरैर्जगति बहुलैः प्लावितं पङ्कजालम् । : तस्या लेपादिव खलमुखं श्यामिका व्याप्तिदम्भा दिन्दोर्दैन्यं त्वदनु सरणक्लिष्टकान्तर्बिभर्ति ॥ ९४ ॥ अत्रान्तरे खामिचरितं किश्चिदुच्यतेजम्बूद्वीपे भरतवसुधामण्डनं कच्छदेशो यत्राम्भोधिर्भुवमनुकलं पूजयत्येव रत्नैः। पृच्छन् पूता जननललनैः सूरिणा यैरमूनि कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥९५॥ चिन्तामण्याह्वयजिनयशो गातुकामेावाटे शालेये वा जनयति भृशं गोपिका सिद्धमोहम् । ' वीणापाणिर्लयमुपगता तद्गुणैर्यत्र रागा द्भूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ।।९६५ आस्ते तस्मिन्नगरमुदितं श्रीमनोरम्यनाम - योगे दूरादुपगतवतां यत्र सांयात्रिकाणाम् । लोको रात्रि नयति लववत्तद्वधूस्तत्र देशे तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्ती ॥ ९७ ॥ तत्र श्रेष्ठी शिवगुण इति प्रेयसी तस्य भांणी . तद्वेश्मोत्थैर्मणिभरकरैलोहिते व्योमभागे । १ हे रसिके ! भूः ! सूरिणा यैः जननललनैः त्वं पूता, भर्तुः अमूनि तानि जननललनानीत्यर्थः, त्वं कच्चित्स्मरासि ? हि यतः त्वं तस्य प्रिया इति पृच्छन् अम्भोधिः यत्र भवं पूजयतीत्यर्थयोजना ॥ For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ .२२ ___ मेघदूतसमस्यालेखः प्रातर्धान्त्या गमयति तमी कोककान्ताशुभोगै__स्तामेवोष्णविरहजनितैरश्रुभिर्यापयन्ती ।। ९८ ।। सुप्तान्येाः कुसुमतैलिने श्रेष्ठिनः कामिनी सा . स्वमे सिंहं त्रिदशमहसापनसत्त्वा ददर्श। हर्षोल्लासाद्विकचनयने किश्चिदाकुञ्च्य निद्रा माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम् ॥९९॥ प्रॉसौत्सूनुं जयमिव शची द्यौरिवेन्दं समग्रं भर्जुस्तस्मादतिशयिरसादल्लभत्वं गता सा। गायत्युच्चैहसति रमते मोदते स्मालिवगैः . प्रायेणैतेऽरमणविरहेष्वङ्गनानां विनोदाः ॥ १० ॥ स्फीतो बालः सुरतरुरिवानुक्रमाद्वैरिसिंहे त्याख्यां बिभ्रद्विजयपदेतो देवसूरेः कदाचित् ।। वाक्यैर्बुध्वा प्रणयविवशां मातरं प्राह दान्त स्तामुन्निद्रामवनिशयनासन्नवातायनस्थः ।। १०१ ॥ मातर्याचे विषयविरतस्त्वनिदेशं व्रताय मायाजालं विकृतिविरसं कस्य नोद्वेगहेतुः । स्त्री विक्षेप्तुं विरहविकृतां न प्रगल्भाऽपि शक्ता गल्लाभोगात्कठिनविषमामेकवेणीं करेण । १०२ ॥ १ रात्रिम् । २ पुष्पशय्यायाम् । ३ गर्भिणी । ४ प्रासौत् असूत. 'षु प्रसवैश्वर्ययोः' इत्यस्य लङि रूपम् । ५ विजयदेवसूरेरित्यर्थः । ६ गल्लो नाम कण्ठप्रदेशः । ' गण्डाभोगात् ' इति पाठान्तरम् । For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः २३ ।। श्रुत्वाऽकस्मादिति सुतवचो विद्युदापातकल्पं मूर्छाऽतुच्छव्यथनकथनैः सङ्कुचद्विस्मिताक्षी । जाता माताऽवचनविषयाऽसह्यदुःखाभिघातात् साभ्रेऽह्रीव स्थलकमलिनी न प्रबुद्धा न सुप्ता ॥१०३।। मातुर्दुःखोदयमपंदयं भावयित्वा कुमारो - वीरेत्याख्यामिव नियमयन् भाविनी वर्धमानः । पित्रोः सत्त्वे व्रतपरिचयो नेत्ययं निश्चिकाय प्रायः सर्वो भवति करुणात्तिरान्तिरात्मा ॥१०॥ मातापित्रोदिवि परिगमे स स्वयं प्रात्तदीक्ष श्चक्रे वक्रेतरमतिधृतिः सरिराजा स्वशिष्यः। तस्य ज्ञानं चरणमरुणप्रौढतेजः स्तुमः किं . - प्रत्यक्षं ते निखिलमचिराद्धातरुक्तं मया यत् ॥१०५।। पट्टे न्यस्तः स इह गुरुणा बन्दिरे गन्धपुर्या खैकाद्रीला १७१०शरदि समहं राधसम्यग्दशम्याम् । लोकैस्तत्रानिमिषसमता.....नेत्रे यदेतन् - मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०६ ॥ . मत्वा गच्छे वरसरसि नः सोऽयमुद्भूतर्पोऽ- - - मीनक्षोभाचलकुवलयश्रीतुलामेष्यतीति ॥ १०६ ।। ( पाठान्तरम् ). १ निर्दयम् । २ वैशाखशुक्ल-। ३ अत्राक्षरद्वयं त्रुटितम् । तच्च 'प्रापि ' यद्वा 'नैषि ' इत्येतदग्रिमार्थ-संबन्धेन संघटेत। ४ पद्मा लक्ष्मीः , पद्मं कमलं च ॥ For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ २४ मेघदूत समस्या लेखः सोऽयं स्वामी विजयपदतः श्रीममेत्याहयैव लक्ष्म्या वाण्या जयति निलयो दर्शनादस्य पूर्वम् । वार्तां वक्तुं कृतनरतनोर्दक्षिणस्ते शुभाय यास्यत्यूरुः सरसकदलीस्तभ्म गौरवलत्वम् ।। १०७ एतद्वृत्तं सुरशिखरिणस्तुङ्गशृङ्गेषु सिद्धै गतं पीत्वा परमरसिका स्वर्जनानां वधूट्यः । रम्भास्तम्भाऽऽलयमुपगता भर्तृयोगे भजन्ति सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०८ ॥ तेजः पुखैर्दिनकरकरस्पर्द्धिभिर्दुर्निरीक्ष्यं शान्तस्वान्तं तपनरपतिं प्राप्य नम्रीकृताङ्गः । अत्रोद्भूतां सुकृतसरसां किंवदन्तीं विदग्धो वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ १०९ ॥ प्रादुर्भूते दिनमुखसुखे सौर तेजस्त्रिधाऽपि विश्व व्याप्तं कथयति महीनाथ ! नान्दी विशेषः । कामक्रीडानिरतमिथुनान्युत्सृजंस्त्यक्तनिद्रं मन्द्रस्निग्धैर्ध्वनिभिरवलावेणिमोक्षोत्सुकानि ॥ ११० ॥ सभ्यास्थायामिह भगवतीपाठ पूर्वोत्तराद्या ध्यायव्याख्या भवति तदनु श्रीगुरोगतवृत्तेः । गन्धर्वाली सुखयति जनं सोत्सवं श्रोत्रपेयैः कान्तोदन्तः सुहृदुपहृतः सङ्गमात्किञ्चिदूनः ॥ १११ ॥ शिष्याध्यायोऽव्रतविरमणं तत्र बापूर्दिदेश कीर्त्त्यङ्करानिव रजतजद्वादशोद्यद्दशाङ्कान् । For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः २५ वात्सल्यानि प्रवरवसनैर्नामजापोऽहंदादेः पूर्वाभाष्यं सुर(ल)भविपदा प्राणिनामेतदेव ॥ ११२ ॥ अर्हत्पूजाकुसुमरचनैनन्धमन्दोत्सवश्री दर्दानं पात्रेष्वभयसहितं भावना भावनाट्यम् । पर्वण्येवं नवनवभवैर्वार्षिके कल्पपाठः पूर्वाभाष्यं सुर(ल)भविपदां प्राणिनामेतदेव ।।११३॥ (पाठान्तरम् ) कर्नु कश्चित्स्पृहयति पुनस्तीर्थयात्रां ससङ्घ कश्चिद्वोढुं व्रतविधिभरं वोपधानानि काचित् । इत्थं सो गुरुगुरुलसद्भक्तिरद्यापि धर्मे सङ्कल्पैस्तैर्विशति विधिनाज्वैरिणाऽरुद्धमार्गः ॥११४॥ एवं नित्योत्सवपरिचयैराश्रितोऽपि प्रकामं मेघः शिष्यो गुरुपदयुगासेवया विप्रयुक्तः । सर्वं बाह्यं मनसि रसिको मन्यमानः सुनेत- स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ११५ ॥ पूर्णाचन्द्रस्तव मुखविभां भावयत्येष पूर्णा तेजस्वित्वं स्पृशति तरणि/रतां मेरुरद्रिः । अम्भोवाहः प्रवहति तथाऽन्योपकारप्रकारं . हन्तकस्थं कचिदपि न तेऽभीरुसादृश्यमस्ति ॥११६॥ तस्मादस्मादृशजनमनस्त्वनिरीक्षामृतेन । दिष्टया पुष्टं कचिदपि रतिं नामुते वस्तुगत्या । ..... १ ( अनुकूलेन दैवेन ) प्रदत्तावसर इत्यर्थः ॥ For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ मेघदूतसमस्या लेखः नामालम्बात्सहमहमहो वासराणि व्रजन्ति दिक्संसक्तप्रविरलघनव्यंस्तसूर्यातपानि ॥ ११७ ॥ २६ राकाचन्द्रेऽभ्युदयिनि भवद्वक्रमारोप्य बुध्या ध्यानाधीनः क्षणमपि सुखं चेतसि स्थापयामि अत्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ११८ ॥ वार्थं ते समधित विधिः शारदेन्दोर्विभूषां सारङ्गाक्ष्णोर्नयनविधये तद्वयोर्योग आसीत् । व्योमारण्ये तुहिनकपटादिन्दुकान्ताऽरुदत्तन् मुक्तास्थूलास्तरुकिसलयेष्व श्रुलेशाः पतन्ति ॥ ११९ ॥ दासीभूतं प्रभुनवयशो ज्योतिषां पुण्डरीक खण्डं मन्ये सरसि हसितं निर्मिमीते समीरान् । आमोदाढ्यान् वरुणककुभः पूर्वभागेऽभ्युपेतान् पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ।। १२० । जाने दिग्भिः पवनचमरैवज्यसे त्वं तदेता चन्द्रो ज्योत्स्नामलयजर सैरर्चयन् पश्चिमायाम् । त्वेवैवं वदति भगवद्वन्दने वृत्तिभाजो नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।। १२१ ॥ पृथ्वीपाथः पवनतरवश्चन्द्रसूर्यादिदेवा स्त्वां सेवन्ते बहुरचनया दूरतोऽपि प्रशस्ताः । मत्सत्वं वा गगनशकलं दूयते केवलं यद् गाठोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ १२२ ॥ For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ श्रीमेघविजयोपाध्यायविरचितः चेतोवाक्ये मम निगदतोऽन्योन्यमाश्वासनाय ध्यानाधीनैः स्तवनकथनैर्नीयतां दिष्टमेवम् । पश्चात्साक्षात्सुभग ! भगवत्सङ्गमे सर्ववृत्तं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ १२३ ॥ धन्यंमन्यस्तदुषसि विभो ! स्यामहं विश्वविश्वे यस्यां रात्रौ लयनिलयगः संलये त्वां निषेवे । तां निद्रामप्यतिशयमुदा संस्तुवे ध्यानमुद्रां दृष्टः स्वमेsकित ! रमयन् कामपि त्वं मयेति ॥ १२४ ॥ बालस्याऽनुक्षणकृतनतेर्मे स्वविज्ञप्तिरेषा भाव्या स्वामिन् ! हृदयविषये संनिधेयो विधेयः । अर्याश्चर्यानुगतमनसो वर्त्तमाने यदर्था दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ।। १२५ ॥ विज्ञप्यैवं प्रवचननृपं श्रीविनीताभिधानो पाध्यायेन्द्रैर्विपुलमतिभिः सेवितं तन्निवृत्तः । तत्प्रत्युक्तानुनभन मुखोदन्तवृन्दैर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२६ ॥ एवं देव ! त्वयि विनिहितं कार्यमार्यं विचार्य व्यक्तां शक्तिं सहृदय सुहृत् ! तावकीमत्र चार्थे । अङ्गीकारं द्रढयति तवाध्वानधाराप्रसारः प्रत्युक्तं हि प्रणयिषु सतामीक्षितार्थक्रियैव ॥ १२७ ॥ १ अनुवन्दना ॥ २७ For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ २८ मेघदूतसमस्यालेखः पूर्व मोदात्तपनृपतिना मे स्वसेवाकुमारी सौभाग्याढ्या प्रणयसरसोद्वाहिता तद्वियुक्तेः । तापं हृत्वा विचर जलदाभीष्टदेशान् यथेच्छं. ___मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥१२८।। स्थित्वास्थायां मुनिपतिपुरोऽसौ निसृष्टार्थरूपी . दिव्यध्वानर्जलधरवरो वाचिकं व्याचचक्षे । जातस्तस्मान्मुनिनरपतिः सप्रसादो विनेये केषां न स्यादभिमतफला प्रार्थना युत्तमेषु ।। १२९ ॥ प्रत्यागत्य प्रणयिहृदयाम्भोधरेणादरेणा दिष्टां वात् गुरुगुरुतरानुग्रहव्यञ्जिनीं सः । श्रुत्वा ज्ञानाचरणचरणोद्भूतभाग्यप्रतिष्ठान् भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १३० ॥ माघकाव्यं देवगुरोर्मेघदूतं प्रभप्रभोः। समस्यार्थ समस्यार्थ निर्ममे मेघपण्डितः ॥ १३१ ॥ ॥ इति श्रीमेघदूतसमस्यालेखः संपूर्णः ।। १ अर्थ समस्य संक्षिप्यति एतस्य पदस्यायमभिप्रेत्य यमकितं कविना ॥ For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only