SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्री मेघविजयोपाध्यायविरचितः अः स्त्रीणां विषमसरणौ श्रोणिभारालसानां सोपानत्वं कुरु मणितटारोहणायाग्रयायी ।। ६५ ।। आस्थाय 'श्रीवृषभविभुना सोयमष्टापदाभः पूतस्तेनात्मनि जलभृते मानसत्वं विदध्याः । यास्तत्रान्महनेविधये स्वेर्वशाः स्नान्ति नैव क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भापयेस्ताः ॥ ६६ ॥ वर्षोत्कर्षैर्द्वमसमुदये विद्रुमाभां वितन्वन् मत्वा सिद्धस्थलमनुपदं नर्त्तयन् मोरसार्थान् । नित्यं शत्रुञ्जयर्मनुनयन् वातलूनैः प्रसूनै + र्नानाचेप्रैर्जलद ! ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६७॥ उद्यातोऽस्माद्गुरुयुगपदन्यासमानम्य सम्यग् वार्धावन्तः पुलिन निवसद्वीपपुर्यामवेयाः । प्रावृट्काले वहति निलयैर्या जलान्युद्भिरद् वो मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् || ६८॥ श्रेणीभूतापणविलुलितव्यक्तमुक्ताम्बुधाराः कान्ताकान्तिस्फुरिततडितस्तोरणेन्द्रायुधाढ्याः । नित्यं नृत्यप्रहतमुरजस्निग्धगम्भीरनादाः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६९ ॥ भुक्त्वा सौख्यं चतुरवनितागात्रधाराग्रहस्तस्पर्शः पुष्पोपवनपवनाश्लिष्टरम्भाः प्रपश्यन् । १ पूजार्थम् । २ देवाङ्गनाः । ३ प्रसादयन् ॥ For Personal & Private Use Only १५ Jain Education International www.jainelibrary.org
SR No.004080
Book TitleMeghdut samasyalekh
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Atmanand Sabha
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy