________________
श्रीमेघविजयोपाध्यायविरचितः श्रेयस्यर्थे प्रभवति बलादन्तरायस्तदस्य
प्रध्वंसायाभ्युचितमचिरादाचिरेयं भजस्व । लाभोऽप्यत्र त्रिदशललनानेत्रसंवीक्षणैस्त्वां
सेविष्यन्ते नयनसुभगं खेभवन्तं बलाकाः ॥ ९ ॥
अथ प्राप्तानुषङ्गं श्रीशान्तिजिनवर्णनम्देवः शान्तिर्भवति भविनां दुर्भवाम्भोधिसेतु- -
हेतुर्भूयोऽनुभवभव'. भोगसंयोगलक्ष्म्या । दुष्टैः कष्टैर्व्ययभयमयैः संनियोगेऽङ्गभाजः
सद्य:पाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ १० ॥ अस्याह्वानस्मरणकरणोद्भूतभूयःप्रभावाः
श्रद्धाभाजो विततमुरजस्येव गर्जे निशम्य । नृत्यारम्भे जिनपतिपुरः सञ्जिगीषोः स्वरुच्या
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः॥११॥ अर्हत्यस्मिन् सृजति भवनोद्भासनं दीपरूपे
चेतोवृत्तीबहलतमसश्छेदनाय प्रपद्य । स्यात्तत्राभिप्रणतमनुजस्वर्गिवर्गस्य चित्रं ___ स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥ हर्षाद्वर्षाविहितहितकृत्स्नात्रकृत्यः समनै
तानीतैः प्रणयतु विभोश्वारुचर्या साम् .. , पलं कालभागविशेष उपलक्षणात्कालः। २ खभ आकाशगज ऐरावतस्तद्वान् । २ वराणि अङ्कानि भूषणानि यासां ताः । ३ अत्रैको गुरुवर्णस्नुटितः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org