________________
मेघदूतसमस्यालेखः । कुर्वन्नुवी स्वतनुमतनुं तीर्थभावाश्रितानां ___क्षीणः क्षीणः परिलघुपयःश्रोतसां चोपभुज्य ॥ १३ ॥ देवस्यास्य प्रसवसमये दिक्कुमारीभिरुच्चै
गन्धाम्भोदः प्रसृमरसुमाऽऽमोदशाली विचके। पित्रा तत्रार्जितसुकृततो विश्वशीर्षे त्वमेषि
दिग्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥१४॥ उद्यद्भालारुणघृणिगणोन्मिश्रशुद्धाश्मगर्भ. च्छत्रेणैतां तनुमनुदिनं भासितामस्य पश्य । मन्दारद्भुप्रभवनिचयैः पथ्यनेपथ्यभाजो ___ बहेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ श्यामीभावं शमयितुमना वामभागे वितत्या
प्रादक्षिण्यं नय गुरुमुरुश्रेयसा देवमेनम् । नृत्यासक्तामरवरवधूवेषवस्त्रायमाणः
किश्चित्पश्चाद्वज लघुगतिर्भूय एवोत्तरेण ।। १६ ।। शङ्के राकातुहिनकिरणो वैश्वसेनिस्वरूपा
चक्रे पूजास्पदमिह मृगं स्वस्य संवाहकं खे । .: न क्षुद्रेऽपि प्रथमसुकृतोद्भावजन्मोपकारः
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ रङ्कुश्चन्द्रं जिनमुखविभामोषसञ्जातदोष
- पादाम्भोजे मखरमिषतोऽभ्यानयत्सप्रसादम् ।.. स्वीयोत्सङ्गे तदिव हरिणो धीयते शीतभासा
सद्भावाः फलति न चिरेणोपकारो महत्सु ॥ १८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org