SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ २ मेघदूतसमस्यालेखः तद्विज्ञप्त्यै त्वरय रयतः स्वं पुनानाऽऽशुनाना भावैरेवं किमिव मनसोदीर्णवाक्यः स बालः । हस्ताम्भोजद्वयरचनया निर्मितार्चाय तस्मै .. प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥ कायं प्रायः पवनसलिलज्योतिषां संनिकायः ___ कार्थश्चायं प्रवणकरणैर्यो विधेयः समर्थः । । हर्षोत्कर्षादिति स सहसा चिन्तयन्नूचिवांस्तं कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥ जज्ञे भूमावतिविषमताऽन्योन्यसाम्राज्यदौस्थ्या- कश्चिन्मां नो नयति यतिनामीशितुर्तिवार्ताम् । तत्त्वां याचे स्ववशमवशासृष्टविश्वोपकारं यात्रा मोघा वरमधिगुणे नाधमे लब्यकामा ॥ ६ ॥ भ्रातस्त्रातस्त्वमसि भुवने जीवनं जीवनन्दी तापव्यापापहतिनिपुणस्तत्पयोवाह ! रम्या । गम्या चारै रुचिरनगरी देवकात्पत्तनाख्या बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥ ७ ॥ नित्यं चेतः स्फुरति चरणाम्भोजयोः सूरिराजः कायः सर्वैः समयविषयैः संनिबद्धान्तरायः । नो चेदीदृग्गुरुसुरतरुं प्राप्य कः स्यादवीयर्यान् न स्यादन्योऽप्यहमिव जनो यः पराधीनत्तिः ॥८॥ १ कुशलवार्ताम् । २ सूरिराजस्येत्यर्थः । ३ न चेत् अर्थात् कायस्य - विषयकृतविघ्नशुन्यत्वे । ४ अतिदूरवर्ती ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004080
Book TitleMeghdut samasyalekh
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Atmanand Sabha
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy