________________
॥ अर्हम् ॥
॥ श्रीमद्विजयकमलसूरीश्वरपादपद्मभ्यो नमः || श्रीमेघविजयोपाध्यायविरचितो
मेघदूतसमस्यालेखः ।
( मन्दाक्रान्तावृत्तम् ) स्वस्ति श्रीमद्भुवनदिनकृद्वीर तीर्थाभिनेतुः प्राप्यादेशं तपगणपतेर्मेघनामा विनेयः । ज्येष्ठस्थित्यां पुरमनुसरन् नव्यरङ्गं ससर्ज स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥ तस्यां पुर्यां मुनिगणगुरोर्विप्रयोगी स योगी
नीत्वा मासान् कतिचिदचिराद्वाचिकं नेतुकामः । भाद्रे पञ्चम्युदयदिवसे मेघमाश्लिष्टसौध
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ मत्वा तस्याऽभ्युदयनदशां वायुनोत्रीयमानां
चेतो वाचं झटिति गमनापेक्षमूचेऽस्य साधोः । प्रत्यासन्नेऽप्ययि ! तव गुरौ कार्यकार्यस्ति योगः
कण्ठा श्लेषमणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
१ भाद्रपदंसितपञ्चम्यां पत्रादिद्वारा संदेशः प्रेर्यत इति जैना प्रथा ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org