SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ २ इत्येताभ्यां पद्याभ्यां श्रीमत्कृपाविजयमुनिपुङ्गवानामन्तेवासित्वं वैक्रमीयेऽष्टादशे शते स्वकीयविद्यमानत्वं च प्रकटितमेव । एभिः कविचक्रचूडामणिभिरेतस्मादतिरिक्ता व्याकरण - काव्यज्योतिर्निमित्ताध्यात्मधर्मशास्त्रादिविषय पोषका दृष्टिसुधासे ककल्पा विरचिता अनेके ग्रन्था दृष्टिपथपान्थतां समायान्ति । अस्मिँलेखे कस्मिँश्चित्पुरे चातुर्मासिकीस्थितिं कुर्वद्भिः कविभिघदूतद्वारा श्रीदेवपत्तनस्थतपगणपतिश्रीमद्विजयप्रभसूरीश्वराणां कुशलवार्त्तादिसंसूचकं वाचिकं प्रेषयद्भिर्देवगिर्यादीनां वर्णनं कृतमस्ति, तत्तु बुद्धिमद्भिः स्वयमेवावभोत्स्यते इति नात्रा - तिकथनावश्यकतेति । 4 अस्यैकमेव पुस्तकं पत्तनस्थसागरगच्छीयपुस्तककोषात्समासादितं तस्यैवाधारेण योधपुरनिवासिभिराशुकविनित्यान्दशास्त्रिभिः संशोधितं टिप्पणीकृतं च । प्रुफपत्राणि तु श्रीमद्विजयानन्दसूरीश्वर शिष्य प्रवर्तक श्रीमत्कान्तिविजयचरणकमलचञ्चरीकायमाणैः श्रीमच्चतुरविजयाभिधानैर्विलोकितानि । अत एतयोरुपकृतिपरम्परां स्मृति गोचरतां नयामि । Jain Education International महता प्रयासेन शोधितेऽप्यत्र निबन्धे यत्र किमप्यशुद्धं कृतं जातं वा भवेत्तत्र संशोधनीयं धीधनैरिति प्रार्थयते— भावनगरस्था आत्मानन्दसभा । For Personal & Private Use Only www.jainelibrary.org
SR No.004080
Book TitleMeghdut samasyalekh
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Atmanand Sabha
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy