________________
॥ अहम् ॥ ॥ प्रस्तावना ॥
अस्य सहृदयहृदयानन्दिमेघदूतसमस्यालेखस्य खण्डकाव्यस्य कवितारः श्रीमदकब्बरभूभृद्विश्राणितजगद्गुरुविरुदधारकवृहत्तपागच्छनायकश्रीमद्हीरवियसूरीश्वरशिष्यसंततिसंजातश्रीकृपाविजयान्तेवासिनो महोपध्यायाः श्रीमन्तो मेघविजया आसन्। यद्यप्यस्मिल्लेखे क्वापि स्वगुरोनाम स्वकीयसत्तासमयश्च साक्षान्नोपनिबद्धं तथाप्यस्यावसानगतस्य
" माघकाव्यं देवगुरोर्मेघदूतं प्रभप्रभोः।
समस्याथै समस्यार्थ निर्ममे मेघपण्डितः" ॥१३१॥ इत्येतत्पद्यस्यान्तर्वर्तिना आद्यपादेन श्रीविजयदेवगुरुवर्णनरूपमाघकाव्यसमस्यापूर्तिकाव्यस्य द्वितीयपादेन श्रीविजयप्रभसूरिविज्ञप्तिरूपमेघदूतसमस्यालेखस्य च एककर्तृत्वे सिद्धे माधकाव्यसमस्यापूर्तिकाव्यप्रशस्तिगताभ्याम्" तत्सेवासक्तचेता अनवरततया प्राप्तलक्ष्मीविशिष्य शिष्यः श्रीमत्कृपादेविजयपदभृतः सत्कवेर्वाचकश्रीः । मेघः पद्माप्रसादाद्विशदमतिजुषां श्राव्यकाव्यं चकार देवानन्दं सदैन्द्रोज्ज्वलवियुलधिया शोध्यतांशोध्यमत्र"। " मुनिनयनाश्वेन्दुमिते १७२७ वर्षे हर्षेण सादडीनगरे । ग्रन्थः पूर्णः समजनि विजयदशम्यामिति श्रेयः ॥"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org