SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीमेघविजयोपाध्यायविरचितः १९ सिन्धोस्तत्रानुज इव लसद्वीचिवासास्तडाग उद्यानान्तस्तरुणवयसो दीर्घिकास्तस्य कान्ताः । तासां चञ्चन्नयननलिनैर्मोहिता मानसाम्भो न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥८५॥ बद्धोत्साहा गमनगहने वातवद्वाजिराजी राज्ञः स्वर्णाभरणसुभगः सामजानां समूहः । यस्यां दानस्रवणनियतोदस्तहस्तः प्रशस्तः प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ।। ८६ ।। नव्यो भव्यैर्मरकतशिलानिर्मितोऽस्त्याश्रमोऽस्यां . गर्जगानानुगतमुरजः साधुनाथैः सनाथः । नित्यं व्याख्यापरिषदि वृतं तोरणैः काञ्चनीयैः प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८७ ।। (पाठान्तरम् ) अथ श्रीगुरुवर्णनम्तत्रास्माकं विभुरभिनवैः पात्रचन्दैः परीतः स्फीतच्छायो वकुलकमलां संनिधत्ते प्रतीकैः । किन्त्वक्षुब्धो मनसि भगवांश्चारुनार्या विलासैः काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥४८॥ नम्रानेकक्षितिपतिशिरोमौलिरत्नैर्नखानां संयोगेन प्रभुचरणयोर्जायते सा विभूषा । - तरुणानि वयांसि पक्षिणो यत्र ताः, अन्यत्र यौवनावस्थाशालिन्यः। .. २ हस्तिनाम् ३ अझैः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004080
Book TitleMeghdut samasyalekh
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Atmanand Sabha
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy