SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मेघदूतसमस्यालेखः व्यक्तीजं नटनरुचितश्चन्द्रकाणां प्रचारै यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥ ८९ ॥ नित्याह्लादैः श्रमणमणिभिस्तत्र सेव्यांन्हिपद्म. स्तेजोराशिः प्रसूमरयशा राजते मूरिसूर्यः । यदूरस्थो विदुरमघवाऽप्या ते तां न शोभा सूर्यापाये न खलु कमलं पुष्पति स्वामभिख्याम् ॥१०॥ गत्वा सूर्योदयनपुरतस्तत्र शोणाणुमूर्त्या भक्तिं चन्द्रोदयरचनया व्यञ्जयनस्य सूरेः । दर्श दर्श वदनमलसां मोदपूर्णा पुनीथाः खद्योताली विलसितनिभां विद्युदुन्मेषदृष्टिम् ।। ९१ ॥ यस्य ब्रह्मनतमविरतं बिभ्रतश्चित्तवृत्ति शच्यास्तस्या अपि मधुरता नेतुमीशा न मोहम् । . पीनोरोजा सरसिजमुखी क्षाममध्याऽऽयताक्षी या तत्र स्यायुवतिविषये सृष्टिराद्यैव धातुः ॥ ९२ ॥ प्राप्तक्षोभा विजयिनि गुरौ देवनाम्नीह पूर्व मोहादीनामसमपरिषच्छङ्कया शङ्कुकल्पा। साम्राज्येऽस्य प्रशमपवनैर्वेपमानां भयात्तां जातां मन्ये तुहि मथितां पद्मिनी वान्यरूपाम् ॥१३॥ १ पण्डितेन्द्रः मद्रूप इति भावः । २ 'आप्नुते' एतत्स्थाने 'अश्नुते' इति भवेत् । आप्नोतिर्हि आत्मनेपदी न वर्तते । ३ सौन्दर्यम् । ४ 'शिशि. रमथितां' इत्यपि पाठः॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004080
Book TitleMeghdut samasyalekh
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Atmanand Sabha
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy