SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ मेघदूतसमस्यालेखः प्रोक्ताः कान्ता इव सुवयसां त्वां विजानन्ति शब्दैः। मुक्त्वा नस्त्वं विरहविधुराः कुत्र गन्तासि भोग्योऽ सि प्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३३ ॥ अस्यां मुक्तामरकतपविश्रीप्रसूनेन्दुरत्न पूगान् दृष्ट्वा तरणिशशिनोः श्रान्तकान्तिस्वरूपान् । पुण्यश्रेणीविपणिगणितान् विद्रुमच्छेदराशीन् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ।। ३४ ॥ ॥ इत्यवरगावादवर्णनम् ॥ अस्याः प्राच्या सुभगभगिनी देवगिर्याहयास्ति पूर्व प्रत्याश्रयमिह चिरं तस्थिवान् रामचन्द्रः। सस्तौ स्नेहादिह जनकजा लक्ष्मणः केलिमाधा- . दित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥३५॥ तस्यां छत्रायितसुरगिरौ वप्रमौलिं दधत्यां ____राज्ञस्तूदिगुणितरवैर्नर्तयेथा मयूरान् । गेहेपूच्चैः प्रसवनिचयाकीर्णमध्येषु नूनं __नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ।। ३६ ॥ एतत्पुर्याः पुरएरिसरादाम्रकम्रातपत्रा त्तत्रासीनो नगरसुषमा मार्गयाद्रौ विनिद्राम् । १ असि, . प्राऽव, अतः इतिच्छेदः । त्वं भोग्योऽसि, अतः प्राव रक्षेत्यर्थः॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004080
Book TitleMeghdut samasyalekh
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Atmanand Sabha
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy