SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ मेघदूतसमस्या लेखः नामालम्बात्सहमहमहो वासराणि व्रजन्ति दिक्संसक्तप्रविरलघनव्यंस्तसूर्यातपानि ॥ ११७ ॥ २६ राकाचन्द्रेऽभ्युदयिनि भवद्वक्रमारोप्य बुध्या ध्यानाधीनः क्षणमपि सुखं चेतसि स्थापयामि अत्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ११८ ॥ वार्थं ते समधित विधिः शारदेन्दोर्विभूषां सारङ्गाक्ष्णोर्नयनविधये तद्वयोर्योग आसीत् । व्योमारण्ये तुहिनकपटादिन्दुकान्ताऽरुदत्तन् मुक्तास्थूलास्तरुकिसलयेष्व श्रुलेशाः पतन्ति ॥ ११९ ॥ दासीभूतं प्रभुनवयशो ज्योतिषां पुण्डरीक खण्डं मन्ये सरसि हसितं निर्मिमीते समीरान् । आमोदाढ्यान् वरुणककुभः पूर्वभागेऽभ्युपेतान् पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ।। १२० । जाने दिग्भिः पवनचमरैवज्यसे त्वं तदेता चन्द्रो ज्योत्स्नामलयजर सैरर्चयन् पश्चिमायाम् । त्वेवैवं वदति भगवद्वन्दने वृत्तिभाजो नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।। १२१ ॥ पृथ्वीपाथः पवनतरवश्चन्द्रसूर्यादिदेवा स्त्वां सेवन्ते बहुरचनया दूरतोऽपि प्रशस्ताः । मत्सत्वं वा गगनशकलं दूयते केवलं यद् गाठोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ १२२ ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004080
Book TitleMeghdut samasyalekh
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Atmanand Sabha
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy