SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्री मेघविजयोपाध्यायविरचितः लक्ष्म्याः स्थानं तदिति मतिमान् वर्धयत्यूर्मिहस्तैमुक्तायुक्तः पुरपरिसरे स्वाङ्कमासार्य सिन्धुः । तत्सुप्रापैः कनकसिकता राशिगुप्तैः सखीभिः संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७५ ॥ कामादेशाद्गमनसमयेऽलक्तकव्यक्तपादन्यासैर्वासैर्मसृणघुसृणा लेपनैर्यत्र भित्तौ । . मुक्तास्रग्भ्यो विलुलितकणैः कङ्कणैः शीर्णबन्धैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ७६ ॥ मुक्ताहारा इव वरभुवः सन्ति यस्यां विहाराः शाटी पुर्याः कुवलयैदृशः श्रेयसी पुष्पवाटी | शालास्त्यागप्रकृतिकृतिभिर्निर्मिताः श्रीविशालाः नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥७७॥ यैरासङ्गादिव जलनिधेः प्रापि रत्नाकरत्वं सार्धं नित्यं मुनिगुरुगुणोद्गातृभिस्तेऽर्थितीर्थम् । श्रान्तं तारान्वितमिव दिवः खण्डमुद्दण्डपुष्पं १७ बद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ७८ ॥ राज्ञः सौधावलिषु तपनोत्सर्पणात्सूर्यकान्तैस्ततैरुमा य इह जनितो दुष्कलेस्तापरूपः । तं चैत्यस्थाः सपदि शरदश्चन्द्रपादानुवादादयालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥७९॥ १ स्वकीयकन्याया इत्यर्थः । २ जिनमन्दिराणि । ३ कुवलयदृशः - स्त्रीरूपायाः पुर्याः पुष्पवाटी एव शाटीति संबन्धः ॥ २ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004080
Book TitleMeghdut samasyalekh
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Atmanand Sabha
Publication Year
Total Pages34
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy