Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 134
________________ . योगशास्त्रे : जातामर्षस्ततो राजा महौजा निर्ययौ निशि । नीलाम्बरप्रावरणो नीलाम्बर इवापरः ॥ ५८ ॥ स्थानेषु शङ्कास्थानेषु बभ्राम स्थामधाम सः । दस्युं कमपि नापश्यदहे: पदमिवाम्भसि ॥ ५८ ॥ स सर्व नगरं भ्रान्तः श्रान्तः सुष्वाप कुत्रचित् । खण्डदेवकुले शैलगुहायामिव केसरी ॥ ६ ॥ निशाचर इवाकस्मानिशाचरणदारुणः। . तस्कराग्रेसरस्तत्रोपासरन्मण्डिकाभिधः ॥ ६१ ॥ कोऽत्रेति व्याहरनुच्चैर्मलिम्लुचपतिस्ततः। रुष्टः सुप्तमिव व्यालं पदा नृपमघयत् ॥ ६२ ॥ चेष्टां स्थानं च वित्तं च जिज्ञासुस्तस्य भूपतिः । ऊचे कार्पटिकोऽस्मीति क्क व निणा न तादृशाः ॥ ६३ ॥ एहि कार्पटिकाद्य त्वामदरिद्रीकरोम्यहम् । इत्यूचे तस्करो भूपं मदान्धानां धिगजताम् ॥ ६४ ॥ तमन्वचालीत्सोऽर्थेच्छुः पत्तिवत्पृथिवीपतिः । ममद गर्दभस्यापि पादौ कार्याज्जनार्दनः ॥ ६५ ॥ . अजानानः स राजानं पाखें मृत्युमिवात्मनः। जगाम धाम कस्यापि श्रेष्ठिनः श्रेष्ठसम्पदः ॥ ६६ ॥ तत्र खात्रं खनित्रेण पातयित्वा स वेश्मनः । जग्राह सारद्रविणं राहुः कुण्डात्सुधामिव ॥ ६७ ॥ अज्ञो राज्ञा समस्तं तद्दाहयामास तस्करः । रदरं दर्शयामास शाकिन्यै व स मूढधीः ॥ ६८ ॥

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194