Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
३८४
योगशास्त्रे मिलितौ रामपौलस्त्यावधी पूर्वापराविव । प्रभातामुत्तरापाच्याविव लक्ष्मणरावणी ॥ ४४ ॥ रावणावरजं रामो रावणिं लक्ष्मण: पुनः । पातयित्वाऽग्रहोत्सत्यं रक्षसामपि राक्षसः ॥ ४५ ॥ रावणेरावणो रोषादशेषकपिकुञ्जरान् ।। पिंषनथाययौ युद्धभुवं भुवनभीषणः ॥ ४६ ॥ अलमार्य ! स्वयं युद्धेनेति राम निवारयन् । सौमित्रिरभ्यमित्रीणो बभूवास्फालयन् धनुः ॥ ४७ ॥ चिरं युवाऽखिलेरस्त्रैरस्त्रविद्रावणस्ततः । जघानामोघया शक्त्या मक्षु वक्षसि लक्ष्मणम् ॥ ४८ शक्त्या भिन्नोऽपतत्क्षोण्यां लक्ष्मणस्तरक्षणादपि।। तथैव सद्यो रामोऽपि बलवच्छोकशङ्खना ॥ ४८ ॥ कृत्वा वप्रान् भटैरष्टो प्राणैरपि हितैषिणः । सुग्रीवाद्यास्ततो रामं सलक्ष्मणमवेष्टयन् ॥ ५० ॥ मरिष्यत्यद्य सौमित्रिस्तदभावे तदग्रजः । किं मुधा मे रणेनेति रावणोऽगात्पुरौं ततः ॥ ५१ ॥ राघवं परितो जात वप्रहारचतुष्टये । सुग्रीवप्रमुखास्तस्थुरारक्षीभूय ते निशि ॥ ५२ ॥ भामण्डलमथोपेत्य दक्षिणहाररक्षणम् । पूर्वसंस्तुत इत्यूचे कोऽपि विद्याधराग्रणीः ॥ ५३ ॥ अयोध्याया योजनेषु हादशस्वस्ति पत्तनम् । कौतुक मङ्गलमिति तत्र द्रोण घनो नृपः ॥ ५४ ॥
Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194