Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 188
________________ ३८६ योगशास्त्रे भामण्डलोऽप्ययोध्यायां मुत्वा भरतमुत्सुकः । आययो सपरीवारविशल्यासंयुतस्ततः ॥ ६५ ॥ ज्वलद्दीपविमानस्थो भौतः मूर्योदयभ्रमात् । क्षणं दृष्टो निजः सोऽधादिशल्यामुपलक्ष्मणम् ॥ ६६ ॥ तया च पाणिना स्मृष्टालक्ष्मणात्तत्क्षणादपि । निःसृत्य क्वाप्यगाच्छक्तियष्टिनेव महोरगी ॥ ६७ ॥ तस्याः स्नानाम्भसाऽन्येऽपि रामादेशादथोक्षिताः । निःशल्या जजिरे सैन्याः पुनर्जाता इव क्षणात् ॥ ६८ ॥ अस्याः स्नानाम्भसा मेक्तुं कुम्भकर्णादयोऽपि ते। .. आनीयतामिहेत्युच्चैरादिदेश रघूहहः ॥ ६८ ॥ तदानीमेव तैर्देव प्रव्रज्या जराहे स्वयम् । इति विज्ञपयामासुरारक्षा लक्ष्मणाग्रजम् ॥ ७० ॥ वन्द्यास्तेऽद्य महात्मानो मोच्या मुक्तिपथस्थिताः । इति रामगिराऽऽरक्षनेत्वाऽमुच्यन्त ते क्षणात् ॥ ७१ ॥ विशल्यां कन्यकास्ताश्च तदोपायंस्त लक्ष्मणः । रावणोऽपि रणायागादमर्षणशिरोमणिः ॥ ७२ ॥ प्रणम्य रामं सौमित्रिरुत्तस्थेऽधिज्यकार्मुकः ।। विवाहाद्युत्सवेभ्योऽपि वीराणामुत्सवो रण: ॥ ७३ ॥ यदयदस्त्रं दशग्रीवो विससर्जातिदारुणम् । तत्तच्चिच्छेद सौमित्रिरस्त्रैः कदलिकाण्डवत् ॥ ७४ ॥ अस्त्रच्छेदादथ क्रुद्धश्चक्रं चिक्षेप रावणः । तल्लक्ष्मणोरस्यपतच्चपेटावन धारया ॥ ७५ ॥

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194