Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 154
________________ ३५२ । योगशास्त्रे 'एतदेवाह.. वरं ज्वलदयस्तम्भपरिरम्भी विधीयते । न पुनर्नरकहाररामाजघनसेवनम् ॥ ८२ ॥ अयमर्थः । भवतु कामज्वरोपशमहेतुमैथुनं परं नरकहेतुत्वान प्रशस्यम् ॥ २ ॥ अपि च स्त्रीसम्बन्धनिबन्धनं निधुवनं, स्त्रियश्च स्मृता अपि सकलगुणगरिमविघातहेतव इत्याह, सतामपि हि वामभूदंदाना हृदये पदम् । अभिरामं गुणग्रामं निर्वासयति निश्चितम् ॥८३॥ सतामपि हि महात्मनामपि, वामभूविरचितलोचनविकाग, हृदये पदं ददाना स्मृतिमात्रेणापि सबिधापिता, अभिरामं रमणीयं, गुणग्रामं गुणसमूह, निर्वासयति उद्दासयति । श्लेषच्छाया चेयम् । यथा कुनियोगी कश्चिद्देशमध्ये पदं ददान एव रक्षितव्यान् ग्रामान् लोभमोहादिनोहासयति, एवं हृदये लब्धपदा कामिन्यपि पालनीयं गुणग्राममुच्छेदयति । अथवा सतामपि गुणग्रामं सतामेव हृदये पादं दत्त्वा वामभूनिर्वासयति ॥ ८३ ॥ हृदयसन्निधापनमपि स्त्रीणां बहुदोषत्वाहुणहानिहेतुः किं पुना रमणमित्येतदेवाह (१) र एतदेवमाह । (१) च ददानः प्रवररक्षितव्यान्।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194