Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
३५६
योगशास्त्रे
कथुम्बेन कश्चि'चेतनचुम्बेदित्यर्थः । उच्छिष्टमिव भोजनमित्युपमानमनेकविटचुम्बितवेश्यावदनस्योपमेयस्य । अथवा मांसमित्रत्वं सुरामित्रत्वं चोच्छिष्टभोजनेऽपि योज्यम् ॥ ८८ ॥
तथा
अपि प्रदत्तसर्वखात् कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति गच्छतः पण्ययोषितः ॥६॥
प्रदत्तसर्वस्वादपि महाधनावस्थायां, पुण्यक्षयात्क्षीणसम्पदः, कामुकात्तत एव गच्छतः स्वगृहं प्रति, वासोऽपि परिधानवस्त्रमपि, आच्छेत्तुं बलाद ग्रहीतुमिच्छन्ति ; पण्यं मूल्यं, तत्प्रधाना योषितो वेश्याः ; अनेन कृतघ्नत्वं तासामाह। यदाह
उपचरिताऽप्यतिसाचं प्रकटवधूः क्षीणसम्पदः पुंसः ।
पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥ १ ॥४०॥ तथा
न देवान्न गुरून्नापि मुहृदो न च बान्धवान् । असत्सङ्गरतिनित्यं वेश्यावश्यो हि मन्यते ॥६१॥ वेश्यावश्यः पुमान्न देवादीन्मन्यते, कुत: असत्सङ्गरतिनित्यं असद्भिविटादिभिः सङ्गो असत्सङ्गस्तत्र रतिर्यस्य । वेश्यावश्यस्य हि सुलभा एवासत्सङ्गाः ॥ ८१॥
(१) च, सचेतमः । क. सञ्चेतनः ।
Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194