Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
द्वितीयः प्रकाशः |
कुन्तपातेर्दिवं कुर्वदुल्कापातमयोमिव ॥ ४८ ॥ युयुधे सादिना सादी निषादो च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥ ४८ ॥ चतुरङ्गचमूचक्रविमर्दादथ मेदिनी ।
अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥ ५० ॥ एह्येहि रे परगृहप्रवेशश्वत्रिति ब्रुवन् । विटसुग्रीवमुद्वीवः सुग्रीवो योडुमाह्वत ॥ ५१ ॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥ ५२ ॥ युयुधाते महायोद्दौ तौ क्रोधारुणलोचनौ । विदधानौ जगतासं कोनाशस्येव सोदरौ ॥ ५३ ॥ तौ निशातैर्निशतानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छेदाते तृणच्छेदं रणच्छेकावुभावपि ॥ ५४ ॥ शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरोगणः । महायुद्धे तयोर्वृक्षखण्डो महिषयोरिव ॥ ५५ ॥ तौ छिन्नास्त्रावथान्योन्यममर्षणशिरोमणी । मल्लयुद्धेनास्फालतां पर्वताविव जङ्गमौ ॥ ५६ ॥ उत्पतन्तौ क्षणाद्दद्योम्नि निपतन्तौ क्षणाद्भुवि । ताम्रचूडाविवाभातां वौरचूडामणी उभी ॥ ५७ ॥ तौ दावपि महाप्राणौ मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः ॥ ५८ ॥ पुनर्युडेन सुग्रीवः खिन्नः स्विन्त्रतनुस्ततः ।
३७५
Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194