Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 159
________________ प्रकाशः। ३५७ तथा कुष्ठिनोऽपि स्मरसमान् पश्यन्तौं धनकाङ्गया। तन्वन्तौं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥१२॥ कुष्ठिनः कुष्ठिरोगिणोऽप्यत्यन्तमनुपादेयान्, स्मरसमान् कन्दर्पतुल्यान्, धनकाझ्या हेतुभूतया पश्यन्ती, महत्या प्रतिपत्त्या प्रतिपादयन्ती, न च स्नेहमन्तरेण कुष्ठिनोऽपि सकाशाइनावाप्तिरिति। तन्वन्ती विस्तारयन्ती, कृत्रिममुपचरितं, स्नेहं प्रेम ; परमार्थतस्तु नि:स्नेहां गणिकां वेश्या, त्यजेत् । एवं तावत्खदारसन्तुष्टस्य पण्याङ्गनागमने दोषाः प्रतिपादिताः ॥ ८२ ॥ इदानी परदारगमनदोषानाहनासक्त्या सेवनीया हि खदारा अप्युपासकैः ॥ आकरः सर्वपापानां किं पुनः परयोषितः ॥१३॥ सर्वविरतिलालसः खलु देशविरतिपरिणाम इति गार्हस्थ्येऽपि वैराग्यातिशयादुपासकैरप्रतिषिहाः खदारा अप्यासक्त्या गर्दैन न सेवनीयाः किं पुनः परयोषितस्ता अत्यन्तमसेवनौया इत्यर्थः ; यत आकरः खानिः सर्वपापानां मायामृषावादादीनाम्, हि शब्दो यस्मादर्थे, यस्मान् खदारानपि नासया सेवन्त उपासकाः ततः कथं परदारेषु प्रसजेयुरित्यर्थः ॥ ८३ ॥ परस्त्रीणां पापकारित्वमेव दर्शयति

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194