Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
द्वितीयः प्रकाशः ।
३५८
सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं ; 'परस्त्रीषु प्रसक्तस्य हि प्रायेण परैः प्राणा प्रणाश्यन्ते कदाचित्रेति प्राणसन्देहः, परमं प्रक्कष्टं, वैरस्य विरोधस्य,
कारणम् ।
यदाह
बहुमूलस्य मूलं हि महद्वैरतरोः स्त्रिय इति ।
लोकद्दयमिहलोकपरलोकलक्षणं, तस्य विरुद्धं प्राणसन्देह
जननत्वाद्वैरकारणत्वाल्लोकद्दयविरुद्धत्वादिति
परस्त्रीगमनत्यागे
हेतुत्त्रयं विशेषणद्वारेण ॥ ८६ ॥
लोकद्दय़विरुद्धं चेति विशेषणमस्फुटं स्फुटयतिसर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् ।
मृतश्च नरकं घोरं लभते पारदारिकः ॥ ८७ ॥ सर्वधनापहारं, रज्ज्वादिना बन्धं, शरीरावयवः पुंध्वजादिस्तस्य च्छिदां छेदं लभत इतोहलोकविरोधः । मृतश्च नरकं घोरं लभते इति परलोकविरोधः । परदारान् गच्छतीति
पारदारिकः ॥ ८७ ॥
उपपत्तिपूर्वं परस्त्रीगमनप्रतिषेधमाहखंदाररक्षणे यत्नं विदधानो निरन्तरम् ।
जानन्नपि जनो दुःखं परदारान् कथं व्रजेत् ॥६८॥
जानन्नपि अनुभवम्नपि, दुःखं मन:पोडां, परदारप्रसङ्गे तस्य ; परदाराः परेषां दाराः परदाराः अतः स्वदारप्रसक्तेषु परेषु (१) क ग पर स्वीप्रसक्तस्य ।
Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194