Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
३३६
... योगशास्त्रे 'आसीद्राजरहे सम्पज्जितामरपुरे पुरे। पादाक्रान्तनृपश्रेणिः श्रेणिको नाम पार्थिवः ॥ १ ॥ राजस्तस्य च तनयो नयविक्रमभाजनम् । नाम्राऽभयकुमारोऽभूत् प्रद्युम्नः श्रीपतेरिव ॥ २ ॥ इतश्च तस्मिन्नगरे वैभारगिरिकन्दरे । चौरो लोहखुराख्योऽभूद्रौद्रो रस इवाङ्गवान् ॥ ३ ॥ " स तु राजगहे नित्यं पौराणामुत्सवादिषु । लब्धा छिद्राणि विदधे पिशाचवदुपद्रवम् ॥ ४ ॥ आददानस्ततो द्रव्यं भुञ्जानश्च परस्त्रियः । भाण्डागारं निशान्तं वा निजं मेने स तत्पुरम् ॥ ५ ॥ चौर्यमेवाभवत्तस्य प्रोत्यै वृत्तिर्न चापरा। अपास्य क्रव्यं क्रव्यादा भक्ष्यैस्तप्यन्ति नापरैः ॥ ६ ॥ तस्यानुरूपो रूपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्नयां रौहिणेयोऽभिधानतः ॥ ७ ॥ स्वमृत्युसमये प्राप्ते पित्राऽऽहयेत्यभाषि सः । यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥ ८ ॥ अवश्यमेव कर्त्तव्यमादिष्टं भवतां मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच स: ॥ ८ ॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्टेति निठुरम् ॥ १० ॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विधत्ते देशनां वीरो मा श्रौषीस्तस्य भाषितम् ॥ ११ ॥
Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194