Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 139
________________ हितीयः प्रकाशः । अन्यत्तु खेच्छया वत्स कुर्यास्त्वमनियन्त्रितः । उपदिश्येति पञ्चत्वं प्राप लोहखुरस्तत: ॥ १२ ॥ मृतकार्य पितुः क्त्वा रौहिणेयस्ततोऽनिशम् । चकार चौरिकां लोहखुरोऽपर इवोहतः ॥ १३ ॥ पालयन् पितुरादेशं जीवितव्यमिवात्मनः । खदासेरमिवामुष्णात् स राजगृहपत्तनम् ॥ १४ ॥ तदा च नगरपामाकरेषु विहरन् क्रमात् । चतुर्दशमहासाधुसहस्रपरिवारितः ॥ १५ ॥ सुरी संचाय॑माणेषु वर्णाम्भोजेषु चारुषु । न्यस्यन् पदानि तत्रागाहौरश्चरमतीर्थकत् ॥ १६ ॥ 'व्यन्तरैरसुरैयोतिषिकैर्वैमानिकैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः ॥ १७ ॥ भायोजनविसर्पिण्या सर्वभाषानुयातया। भारत्या भगवान् वीरः प्रारंभे धर्मदेशनाम् ॥ १८ ॥ तदानौं रौहिणेयोऽपि गच्छन् राजगृह प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ॥ १८ ॥ . एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाज्ञा भज्यते पितुः ॥ २० ॥ न चान्यो विद्यते पन्या भवत्वेवं विमृश्य सः । . कर्णी पिधाय पाणिभ्यां द्रुतं राजगृहं ययौ ॥ २१ ॥ (१) ख म च ड वैमानिकैज्योतिषिय॑न्तरैरसुरैरपि । ४३

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194